SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ યોગદષ્ટિ સમુચ્ચય ૨૩૯ २०८ ये योगिनां कुले जाताः, तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते, गोत्रवन्तोऽपि नापरे ॥१८॥ २०९ सर्वत्राद्वेषिणश्चैते, गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च, बोधवन्तो जितेन्द्रियाः ॥१९॥ २१० प्रवृत्तचक्रास्तु पुनः, यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं, शुश्रूषादिगुणान्विताः ॥१००॥ २१३ तद्वत्कथाप्रीतियुता, तथाऽविपरिणामिनी । यमेष्विच्छाऽवसेयेह, प्रथमो यम एव तु ॥१०१॥ २१४ सर्वत्र शमसारं तु, यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया, द्वितीयो यम एव तत् ॥१०२॥ २१५ विपक्षचिन्तारहितं, यमपालनमेव यत् । तत् स्थैर्यमिह विज्ञेयं, तृतीयो यम एव हि ॥१०३॥ २१६ परार्थसाधकं त्वेतत्, सिद्धिः शुद्धान्तरात्मनः । अचिन्त्यशक्तियोगेन, चतुर्थो यम एव तु ॥१०४॥ प्रयाणभङ्गाभावेन, निशि स्वापसमः पुनः । विघातो दिव्यभवतः, चरणस्योपजायते ॥१०५॥ २१७ सद्भिः कल्याणसंपन्नैः, दर्शनादपि पावनैः । तथादर्शनतो योग, आद्यावञ्चक उच्यते ॥१०६॥ २१८ तेषामेव प्रणामादि-क्रियानियम इत्यलम् । क्रियाऽवञ्चकयोगः स्यात्, महापापक्षयोदयः ॥१०७॥ २१९ फलावञ्चकयोगस्तु, सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिः, धर्मसिद्धौ सतां मता ॥१०८॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy