SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ૨૩૮ યોગબિંદુ - યોગદષ્ટિ સમુચ્ચય સૂક્ત - રત્ન - મંજૂષા १२० ८७ बोधरोगः शमापायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं, भावशत्रुरनेकधा ॥८७॥ कुतर्केऽभिनिवेशस्तद्, न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले, समाधौ च महात्मनाम् ॥८८॥ १४६ ग्रहः सर्वत्र तत्त्वेन, मुमुक्षूणामसङ्गतः । मुक्तौ धर्मा अपि प्रायः, त्यक्तव्या किमनेन तत् ? ॥८९॥ १२१ आदरः करणे प्रीतिः, अविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च, सदनुष्ठानलक्षणम् ॥१०॥ ११९ इन्द्रियार्थाश्रया बुद्धिः, ज्ञानं त्वागमपूर्वकम् । सदनुष्ठानवच्चैतद्, असंमोहोऽभिधीयते ॥११॥ रत्नोपलम्भतज्ज्ञान-तत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु, ज्ञेयं बुद्धयादिसिद्धये ॥१२॥ १२२ बुद्धिपूर्वाणि कर्माणि, सर्वाण्येवेह देहिनाम् । संसारफलदान्येव, विपाकविरसत्वतः ॥१३॥ १२३ ज्ञानपूर्वाणि तान्येव, मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशाद्, अनुबन्धफलत्वतः ॥१४॥ १२४ असंमोहसमुत्थानि, त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु, भवातीतार्थयायिनाम् ॥१५॥ १४८ परपीडेह सूक्ष्माऽपि, वर्जनीया प्रयत्नतः । तद्वत् तदुपकारेऽपि, यतितव्यं सदैव हि ॥१६॥ १४९ गुरवो देवता विप्रा, यतयश्च तपोधनाः । पूजनीया महात्मानः, सुप्रयत्नेन चेतसा ॥१७॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy