SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ૧૮૮ ज्ञानसार सूत - रत्न મંજૂષા જ્ઞાનસાર સૂક્ત - રત્ન - મંજૂષા यशोविजयकृतः ज्ञानसारः १ / १ ऐन्द्र श्रीसुखमग्नेन, लीलालग्नमिवाखिलम् । सच्चिदानन्दपूर्णेन, पूर्णं जगदवेक्ष्यते ॥१॥ १/४ जागर्ति ज्ञानदृष्टिश्चेत्, तृष्णाकृष्णाहिजाङ्गुली । पूर्णानन्दस्य तत् किं स्याद्, दैन्यवृश्चिकवेदना ? ॥२॥ १/७ परस्वत्वकृतोन्माथा, भूनाथा न्यूनतेक्षिण: । स्वस्वत्वसुखपूर्णस्य, न्यूनता न हरेरपि ॥३॥ २/ २ यस्य ज्ञानसुधासिन्धौ, परब्रह्मणि मग्नता । विषयान्तरसंचारः, तस्य हालाहलोपमः ॥४॥ २ / ३ स्वभावसुखमग्नस्य, जगत्तत्त्वावलोकिनः । कर्तृत्वं नान्यभावानां, साक्षित्वमवशिष्यते ॥५॥ २ / ६ ज्ञानमग्नस्य यच्छर्म, तद्वक्तुं नैव शक्यते । नोपमेयं प्रियाश्लेषैः, नापि तच्चन्दनद्रवैः ॥६॥ ३/४ अन्तर्गतं महाशल्यं, अस्थैर्यं यदि नोद्धृतम् । क्रियौषधस्य को दोष:, तदा गुणमयच्छतः ? ॥७॥ ४ / १ अहं ममेति मन्त्रोऽयं, मोहस्य जगदान्ध्यकृत् । अयमेव हि नञ्पूर्वः, प्रतिमन्त्रोऽपि मोहजित् ॥८ ॥ ४ / २ शुद्धात्मद्रव्यमेवाहं, शुद्धज्ञानं गुणो मम । नान्योऽहं न ममान्ये चेत्यदो मोहास्त्रमुल्बणम् ॥९॥ ५/१ मज्जत्यज्ञः किलाज्ञाने, विष्ठायामिव शूकरः । ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे ॥१०॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy