SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ૧૭૬ અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રત્ન- મંજૂષા ७/१६ शत्रूभवन्ति सुहृदः कलुषीभवन्ति, धर्मा यशांसि निचितायशसीभवन्ति । स्निह्यन्ति नैव पितरोऽपि च बान्धवाश्च, लोकद्वयेऽपि विपदो भविनां कषायैः ॥२९॥ १४/१९ कषायान् संवृणु प्राज्ञ !, नरकं यदसंवरात् । महातपस्विनोऽप्यापुः, करटोत्करटादयः ॥३०॥ ७/१० धत्से कृतिन् ! यद्यपकारकेषु, क्रोधं ततो धेह्यरिषट्क एव । अथोपकारिष्वपि तद् भवार्तिकृत्कर्महन्मित्रबहिर्द्विषत्सु ॥३१॥ ७/११ अधीत्यनुष्ठानतपःशमाद्यान्, धर्मान् विचित्रान् विदधत् समायान् । न लप्स्यसे तत्फलमात्मदेहक्लेशाधिकं ताँश्च भवान्तरेषु ॥३२॥ ७/१२ सुखाय धत्से यदि लोभमात्मनो, ज्ञानादिरत्नत्रितये विधेहि तत् । दुःखाय चेदन परत्र वा कृतिन् !, परिग्रहे तद् बहिरान्तरेऽपि च ॥३३॥ ७/२ पराभिभूतौ यदि मानमुक्तिः, ततस्तपोऽखण्डमतः शिवं वा । मानादृतिः दुर्वचनादिभिश्चेत्, तपःक्षयात् तन्नरकादिदुःखम् ॥३४॥ ७/९ पराभिभूत्याऽल्पिकयाऽपि, कुप्यस्यधैरपीमां प्रतिकर्तुमिच्छन् । न वेत्सि तिर्यड्नरकादिकेषु, तास्तैरनन्तास्त्वतुला भवित्री ॥३५॥ ७/४ श्रुत्वाऽऽक्रोशान् यो मुदा पूरितः स्यात्, लोष्टाद्यैर्यश्चाहतो रोमहर्षी । यः प्राणान्तेऽप्यन्यदोषं न पश्यत्येष, श्रेयो द्राग् लभेतैव योगी ॥३६॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy