________________
અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રત્ન - મંજૂષા
१93
६/२ आपातरम्ये परिणामदुःखे,
सुखे कथं वैषयिके रतोऽसि ? । जडोऽपि कार्यं रचयन् हितार्थी,
करोति विद्वन् ! यदुदर्कतर्कम् ॥८॥ १०/१८ दुःखं यथा बहुविधं सहसेऽप्यकामः,
कामं तथा सहसि चेत् करुणादिभावैः । अल्पीयसाऽपि तव तेन भवान्तरे स्यात्,
आत्यन्तिकी सकलदुःखनिवृत्तिरेव ॥९॥ १०/२५ शीतात् तापान्मक्षिकाकत्तृणादि
स्पर्शाद्युत्थात् कष्टतोऽल्पाद् बिभेषि । तास्ताश्चैभिः कर्मभिः स्वीकरोषि,
श्वभ्रादीनां वेदना धिग् धियं ते ! ॥१०॥ १०/१२ आत्मानमल्पैरिह वञ्चयित्वा,
प्रकल्पितैर्वाक्तनुचित्तसौख्यैः । भवाधमे किं जन ! सागराणि,
सोढाऽसि ही नारकदुःखराशीन् ? ॥११॥ ६/९ विमोासे किं विषयप्रमादैः, भ्रमात् सुखस्यायतिदुःखराशेः? ।
तद्गर्धमुक्तस्य हि यत् सुखं ते, गतोपमं चायतिमुक्तिदं तत् ॥१२॥ १०/१४ पतङ्गभृङ्गेणखगाहिमीन
द्विपद्विपारिप्रमुखाः प्रमादैः । शोच्या यथा स्युर्मृतिबन्धदुःखैः, चिराय भावी त्वमपीति जन्तो ! ॥१३॥