SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ૧૨ અધ્યાત્મકલ્પદ્રુમ સૂક્ત- રન - મંજૂષા અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા मुनिसुन्दरसूरिकृतं अध्यात्मकल्पद्रुमप्रकरणं १/१ जयश्रीरान्तरारीणां, लेभे येन प्रशान्तितः । तं श्रीवीरजिनं नत्वा, रसः शान्तो विभाव्यते ॥१॥ १/१० भजस्व मैत्री जगदङ्गिराशिषु, प्रमोदमात्मन् गुणिषु त्वशेषतः । भवार्तिदीनेषु कृपारसं सदाऽप्युदासवृत्तिं खलु निर्गुणेष्वपि ॥२॥ यतः शुचीन्यप्यशुचीभवन्ति, कृम्याकुलात् काकशुनादिभक्ष्यात् । द्राग् भाविनो भस्मतया ततोऽङ्गात्, मांसादिपिण्डात् स्वहितं गृहाण ॥३॥ कारागृहाद् बहुविधाशुचितादिदुःखात्, निर्गन्तुमिच्छति जडोऽपि हि तद्विभिद्य । क्षिप्तस्ततोऽधिकतरे वपुषि स्वकर्म वातेन तद् दृढयितुं यतसे किमात्मन् ? ॥४॥ ५/८ मृत्पिण्डरूपेण विनश्वरेण, जुगुप्सनीयेन गदालयेन । देहेन चेदात्महितं सुसाध्यं, धर्मान्न किं तद्यतसेऽत्र मूढ ? ॥५॥ १/६ यदिन्द्रियार्थैः सकलैः सुखं स्यात्, नरेन्द्रचक्रित्रिदशाधिपानां । तद् बिन्दवत्येव पुरो हि साम्यसुधाम्बुधेस्तेन तमाद्रियस्व ॥६॥ १/२७ स्वप्नेन्द्रजालादिषु यद्वदाप्तैः, रोषश्च तोषश्च मुधा पदार्थैः । तथा भवेऽस्मिन् विषयैः समस्तैः, एवं विभाव्यात्मलयेऽवधेहि ॥७॥ ५/२
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy