SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ શાંતસુધારસ સૂક્ત- રત્ન- મંજૂષા ૧૪ શાંતસુધારસ સૂક્ત - રત્ન - મંજૂષા उपाध्यायविनयविजयकृतः शान्तसुधारसः ~ अनित्यभावना -- १० आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः, सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याऽभ्ररागादिवत् । मित्रस्त्रीस्वजनादिसङ्गमसुखं स्वप्नेन्द्रजालोपमं, तत् किं वस्तु भवे भवेदिह मुदां आलम्बनं यत् सताम् ? ॥१॥ प्राततिरिहावदातरुचयो ये चेतनाचेतना, दृष्टा विश्वमनःप्रमोदविदुरा भावाः स्वतः सुन्दराः । तांस्तत्रैव दिने विपाकविरसान् हा ! नश्यतः पश्यतः, चेतः प्रेतहतं जहाति न भवप्रेमानुबन्धं मम ॥२॥ १/१ मूढ ! मुह्यसि मुधा, मूढ ! मुह्यसि मुधा, विभवमनुचिन्त्य दि सपरिवारम् ।। कुशशिरसि नीरमिव गलदनिलकम्पितं, विनय ! जानीहि जीवितमसारम् ॥३॥ सुखमनुत्तरसुरावधि यदतिमेदुरं, कालतस्तदपि कलयति विरामम् । कतरदितरत् तदा वस्तु सांसारिकं, स्थिरतरं भवति ? चिन्तय निकामम् ॥४॥ १/६ यैः समं क्रीडिता ये च भृशमीडिताः, यैः सहाकृष्महि प्रीतिवादम् । तान् जनान् वीक्ष्य बत भस्मभूयङ्गतान्, निर्विशङ्काः स्म इति धिक् प्रमादम् ! ॥५॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy