SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ૧૨૬ યતિદિનકૃત્ય સૂક્ત- રત્ન - મંજૂષા ३८९ पूर्वं निरूपितेन च पूर्व-निषिद्धेन वा सताऽप्यत्र । कार्ये गुरोः पुनः पृच्छा, प्रतिपृच्छा जिनैरुक्ता ॥१९॥ ३९० सा च्छन्दना यदशनादिके, गृहीतेऽर्थ्यते मुनिर्भोक्तुम् । अगृहीत एव तस्मिन्, निमन्त्रणामाहुरर्हन्तः ॥१००॥ ३९१ यद्गम्यते बहुश्रुत-सूरिसमीपे विमुच्य निजगच्छम् । सम्यग्ज्ञानादित्रय-लाभार्थं सोपसम्पदिति ॥१०१॥ ३९८ गीतार्थश्च विहारोऽपरस्तु गीतार्थनिश्रितो भवति । गीतं तु सूत्रमुक्तं, जघन्यतोऽप्यादिमाङ्गं तत् ॥१०२॥ ३९९ तद्द्वादशाङ्गमुत्कृष्टतोऽनयोर्मध्यगन्तु मध्यमतः । अर्थः सूत्रव्याख्या, गीतेनार्थेन युक्तो यः ॥१०३॥ ४०० तन्निश्रया विहारो, युक्तो गच्छस्य बालवृद्धयुजः । अप्रतिबद्धस्य सदा, द्रव्यादिचतुष्कमाश्रित्य ॥१०४॥ ४१२ व्रतपञ्चकं नवब्रह्मगुप्तयो, दशविधः श्रमणधर्मः । वैयावृत्त्यं दशधा, संयमभेदाश्च सप्तदश ॥१०५॥ ४१३ सम्यग्ज्ञानप्रमुखत्रितयं, क्रोधादिनिग्रहचतुष्कम् । तपसो द्वादशभेदा, एवं सप्ततिविधं चरणं ॥१०६॥ ४१४ पिण्डविशुद्धिचतुष्कं, द्वादशभेदाश्च भावनायाः स्युः । गुप्तित्रयं समिति-पञ्चकं च पञ्चेन्द्रियनिरोधः ॥१०७॥ ४१५ प्रतिलेखनाविधाः पञ्चविंशतिः, अभिग्रहाश्च चत्वारः । द्वादशभेदाः प्रतिमा, इत्थं करणमपि सप्ततिधा ॥१०८॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy