SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ યતિદિનકૃત્ય સૂક્ત - રત્ન - મંજૂષા ૧૫ ३६३ उद्धर्तना-परावर्तना, यदि च कुर्वते तदा मुनयः ।। प्रथमं शरीरकं प्रतिलिखन्ति, पश्चाच्च संस्तरकम् ॥४८॥ ३६४ कृत्वा शरीरचिन्तां, ईर्यापथिकीप्रतिक्रामणपूर्वम् । कुर्वन्ति स्वाध्यायं, गाथात्रयमानमधिकं वा ॥८९॥ ३७७ ऋतुबद्ध कालमपास्य, जीवघातादिदोषसम्भवतः । बहुवर्षासमये क्षालयन्त्युपधिमखिलामपि यत्नात् ॥१०॥ ३७८ सलिलाभावे तु जघन्यतोऽपि, नियमेन पात्रनिर्योगः । आचार्यग्लानानां, उपधिर्मलिनः सदा क्षाल्यः ॥११॥ ३७९ आचार्याणां मलिनोपधि-परिभोगे ह्यवर्णवादः स्यात् । ग्लानानां तद्वसन-प्रावरणेऽजीर्णताऽऽपत्तिः ॥१२॥ ३८३ या चक्रवालसामाचारी, सा कालगोचरा दशधा । इच्छाकारो मिथ्याकारश्च, तथा तथाकारः ॥१३॥ ३८४ आवश्यकी च नैषेधिकी, तथा पृच्छना भवेत् षष्ठी । प्रतिपृच्छा च तथा छन्दनाऽपि च निमन्त्रणा नवमी ॥१४॥ ३८५ उपसम्पच्चेति दशधा, तत्राद्या यदिच्छया करणम् । न बलाभियोगपूर्वकं, इच्छाकारप्रयोगोऽतः ॥१५॥ ३८६ संयमयोगे वितथाचरणे, मिथ्येदमिति विधानं यत् । मिथ्यादुष्कृतदानं, मिथ्याकारः स विज्ञेयः ॥१६॥ ३८७ सूरिर्बहुश्रुतो नैष्ठिकश्च, यद्वचनादिकं दत्ते । शिष्याय तथैव तदिति, निश्चयकरणं तथाकारः ॥१७॥ ३८८ आवश्यकी विधेया, गमने नैषेधिकी पुनर्विशता । कार्यं प्रविधातुमभीप्सितं, आपृच्छा गुरोः कार्या ॥१८॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy