SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ યતિદિનકૃત્ય સૂક્ત - રત્ન - મંજૂષા ૧૨૩ २७५ इति हेतुषट्कतोद्या भिक्षाऽपि, न भुञ्जीत हेतुभिः षड्भिः । रोगोपशमनिमित्तं, राजाद्युपसर्गसहनार्थम् ॥६६॥ २७६ तुर्यव्रतरक्षायै, वर्षादिषु जन्तुपालनकृते च । तपसे संन्यासादौ, तनुव्यवच्छेदनार्थञ्च ॥६७॥ २७७ प्रथमप्रहरानीतं यतीनाम्, अशनादि कल्पते भोक्तुम् । आयामत्रयमुपरि तु, कालातिक्रान्तता तस्य ॥६८॥ २७८ तापक्षेत्राभावे, यदात्तमशनाद्यनुक्षते तरणौ । तद्धि क्षेत्रातीतं, न युज्यते जेमितुं यतीनाम् ॥६९॥ २७९ क्रोशद्वितयादग्, आनेतुं कल्पतेऽशनप्रभृति । तत्परतोऽप्यानीतं, मार्गातीतमिति परिहार्यम् ॥७०॥ २८१ भक्तमशुद्धं कारण-जातेनाप्तमपि भोजनावसरे । त्यजति यदि तदा शुद्धो, भुञ्जानो लिप्यते नियतम् ॥७१॥ २८२ अर्धमशनस्य सव्यञ्जनस्य, देहे जलस्य चांशो द्वौ । न्यूनस्य षष्ठभागं, कुर्यादनिलानिरोधार्थम् ॥७२॥ २८३ भुङ्क्ते स्वादमगृह्णन्, अविलम्बितमद्रुतं विशब्दं च । केसरिभक्षितदृष्टान्ततः, कटप्रतरगत्या वा ॥७३॥ २८६ भुक्ते द्विदले निर्लेप्य, मुखं कर पात्रकञ्च दध्यादि । पात्रान्तरेण वाऽश्नाति, भोज्यमादौ सदा मधुरे ॥७४॥ २८७ परिशाटिरहितमभ्यवहरेत्, तथा सर्वमन्नमरसमपि । न ज्ञायते यथा भोजनप्रदेशः, तदितरो वा ॥५॥ २९९ पूज्ये उत्तरपूर्वे, निशाचरेभ्यो भयञ्च याम्यायाम् । मुक्त्वा दिशां त्रयमिदं, स्थण्डिलभूप्रेक्षणं कुर्यात् ॥७६॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy