________________ 302 सटीकादतदीपिकायाम् तादात्म्यं संभवतीत्यविद्यैवास्मदभिमता कारणं पराभिमतात कारणात सद्विलक्षणकार्यानुत्पत्तेः / अन्यथा नाममात्रे विवादः स्यात् / पटे अधिकतन्तुयोजने पटान्तरोत्पत्तिनिराकरणम् ___ एवं पटादिकार्य द्वितन्तुकादि पटे सत्येव जायमानं किं ततो भिन्नमेवाभिन्नं वा? नाद्यः / मूर्तानामनेकेषां युगपदेकत्र समवायायोगात् / नन्वत एव पूर्वपटनाशे सत्येव पटान्तरं जायत इति चेत्, न, त्रितन्तुकादिपटपूर्व पूर्वपटस्यानुभूयमानत्वात। न च स्वाभ्युपगमविरोधेनानुभवो वाध्यते। पूर्वपटनाशे हेतुमपि न पश्यामः। समवाय्यसमवायिनोः सत्वात् तव मते तदन्यतरविनाशस्यैव द्रव्यनाशे हेतुत्वात् / संयोगनाशादेव पूर्वपटनाशः स च क्रिययेति चेत्, कर्म तावदवयविनि संयोगादिवदव्याप्यवृत्तिप्रत्यक्षमनुभूयते सूत्रादिद्रव्ये वेष्टितभागातिरिक्तप्रदेशे कर्मानुभवात् / न च तत्रावयववृत्येव कर्म, सूत्रं चलतीत्यबाधितानुभवात् / अन्यथा संयोगादेरव्याप्यवृत्तित्वं न सिद्धयेत् / न चैवं सर्वकर्मणोऽप्यव्यावृत्तित्वप्रसङ्गः, अनुभवानुरोधेनैकस्याव्याप्यवृत्तित्वे सर्वस्य तथात्वनियमाभावात्। न च व्याप्यवृत्तिजातीयस्य व्याप्यवृत्तित्वनियम इति वाच्यम्; अनुभवविरोधाद् व्याप्तिग्रहायोगात् ।चित्ररूपादौ तदभावाच्च / अप्रयोजकत्वाच्च / तस्माद्यदंशे प्रतिबंधस्तदितरांशे कर्मेति पटसमवायप्रदेशे दृढवेष्टनादिप्रतिबंधात् कर्मानुत्पत्तौ तत्संयोगविनाशानुपपत्तिः। अन्यथा प्रत्यक्षसमवेतकर्मणः प्रत्यक्षत्वात् प्रदेशान्तर इव तत्रापि कर्मानु सैवाविद्येति न विवाद इत्याह-अन्यथेति / . द्वितन्तुकपटादिकार्याणामपि वस्तुतो भेदाभेदाभ्यां दुनिरूपत्वादनिर्वचनीयत्वेनाविद्योपादानत्वमावश्यकमित्याह-एवमिति / किं द्वितन्तुकादिपटे सत्येव त्रितन्तुकादिपटो जायते उत तस्मिन्नष्टे ? आद्येऽपीदं वक्तव्यमित्याह-पटादीति / भेदपक्षेऽपि कि तन्तव एवोत्तरपटोपादानमुतोत्तरोत्तरतन्तुसहितः पूर्वपट: ? आद्यमसंभवेन दूषयति-नाद्य इति / पूर्वपटनाशानन्तरमेवोत्तरपटोत्पत्तिपक्षं शङ्कते-नन्विति / त्रितन्तुकादिपटोत्पत्तः पूर्व तन्तुवदेव द्वितन्तुकादिपटानामनुभूयमानत्वात् तन्नाशो न युक्त इत्याह-न त्रितन्तुकेति / उत्तरपटोत्पत्तेः पूर्वं पटनाशस्यास्माभिरभ्युपगमात् / तदा तत्सत्तानुभवो भ्रम इत्यत आह-न चेति / वाद्यभ्युपगमविरोधेन भ्रमत्वे न किमपि ज्ञानं प्रमा स्यादिति भावः। द्वितन्तुकादिपटनाशहेतोरभावादपि तदा तन्नाशासंभव इत्याह-पूर्वपटेति / * समवायिकारणनाशादेव तन्नाश इति शङ्कते-संयोगेति / यस्मिन् प्रदेशे द्वितन्तुकादि. पटारम्भस्तत्र न क्रियाऽतो न तदारम्भकसंयोगनाश इत्यभिप्रेत्य क्रियाया अव्याप्यवृत्तितामाह-कर्मेति / सूत्रैकदेशेऽनुभूयमानं कर्म न सूत्रगतं किन्तु तदवश्वगतं तत्र च व्याप्यैव वर्तत इत्याशंक्य सूत्रत्वसामानाधिकरण्यानुभवान्मवमित्याह-न च तत्रेति /