________________ सटीकाद्वैतदीपिकायाम् कानुगतबुद्धिन्वं हेतुरिति चेन्न / असिद्धः। जातिविषयत्वादेव तत्साधने परस्पराश्रयात् // अनुभवभेदासिद्धिः एतेन समकालोत्पत्तिविनाशवन्तौ देवदत्तयज्ञदत्तानुभवावन्योन्यं भिन्नौ एककालोत्पत्तिविनाशप्रतियोगित्वात्सम्मतवदिति परोक्तं परास्तम् / उत्पत्तिविनाशववृत्तीनां भेदाङ्गीकारात् / तदतिरिक्तज्ञाने च पक्षतावच्छेदकहेत्वोरसिद्धेः / अत एव कारणभेदाकार्यज्ञानभेदानुमानमपि परास्तम् / नाप्याश्रयभेदात्तदनुमानं जातो व्यभिचारात् / कार्यत्वे सतीति विशेषणे च संयोगादौ व्यभिचारात् / असिन्डेश्च / अत एव विशेषगुणत्वादित्यपि न हेतुः / असमवेतस्यानुभवस्याविशेषगुणत्वात् // कघटत्वविशेष्यकानुगतबुद्वौ व्यभिचारमाह-घटत्वमिति / द्वितीयं शङ्कते-नानेति / अस्मन्मते ऽनुभवानुगतत्वबुद्धेरनेकविशेष्यकत्वमसिद्धमित्याह-नेति / विमता अनेक विशेष्यका जातिविषयत्त्वादित्यनुमानात्तत्सिद्धिरित्याशङ्कयाह-- जातीति // ननु यज्ञदत्तानुभवनाशकालीनोत्पत्तिको देवदत्तानुभवस्ततो भिन्नस्तन्नाशकालोत्पत्तिकत्वात्तत्कृतिवदित्यनुमानात्तदनुभवभेदसिद्धिरित्यत आह-एनेतेति / यथाश्रुतप्रयोगे एकैकानुभवे समकालोत्पत्तिविनाशवत्त्वाभावात्समुदायस्य समुदायिव्यतिरेकेणाभावादसिद्धिरिति द्रष्टव्यम् / किमस्मिन्ननुमाने वृत्तिज्ञानं पक्षः तदतिरिक्तानुभवो वा ? उभयथाप्यनुपपन्नमित्याह-उत्पत्तीति / चैत्रानुभवो मैत्रानुभवाद्भिन्नः तद्भिन्नसामग्रीकत्वादित्यनुमानमपि सिद्धसाधनतयाऽसिद्धथा वा निरस्तमित्याह -अत एवेति। चैत्रानुभवो मैत्रानुभवाद्भिन्नः तद्भिन्ना. श्रयत्वादित्याशङ्कयाह-नापीति / कार्यत्वे सति भिन्नाश्रयत्वं हेतुः / तथाच न जातो व्यभिचार इत्याशङ्कयाह-कार्यत्वे सतीति / वृत्तिव्यतिरिक्तज्ञाने विशेषणविशेष्ययोरसिद्धिरित्याह - असिद्धेश्चेति / चैत्रो ऽनभवति न मैत्र इति व्यवस्था च मैत्रान्तःपारणोपहितानुभवस्य विषयसम्बन्धाभावादेवोपपद्यत इति भावः / तर्हि भिन्नाअयत्वे सति विशेषगुणत्वं हेतुः। तथाच न संयोगादौ व्यभिचार इत्याशङ्कय पूर्वपदसिद्धथा दूषयति-अत एवेति // - एवमनुभवेमेदेऽनुमानं निरस्य प्रत्यक्षमप्यनूद्य निरस्यति-यत्त्विति /