SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः धर्मवत्प्रतियोगिकपारमार्थिकभेदवान् उपाधिपरामर्शमन्तरेणाविभाव्यमानभेदत्वादाकाशवदिति वाच्यम् / वृत्तिज्ञानस्य पक्षत्वे वाधात्तदन्यस्य चाप्रसिद्धः हेतोरिच्छादौ व्यभिचाराच्चेति चेत् / अनुभवैकत्वसिद्धान्तः किं वृत्तिविषयानुगतबुद्धिं पक्षीकृत्य जातिविषयत्वं साधयसि किं वा तदतिरिक्तानुभव विषयां यस्या अनुगतबुद्धेय॑क्तिविषयत्वमस्माभिरिष्यते तां वा सामान्येन ? नाद्यः, सिद्धसाधनत्वात् / न द्वितीयः, सिद्धयसिद्धिव्याघातात् / तत्साधकस्य. लाघवतर्कसहकृतानुमानस्यानुगतबुद्धेश्च तदेकत्वगोचरत्वात् / न. तृतीयः, आकाशानुगतबुद्धौ व्यभिचारात्। औपाधिकधर्मविषयानुगतबुद्धौ व्यभिचाराच ! न चानुगतविषयत्वमानं साध्य विवक्षितम् / अनेकान्तःकरणवृत्त्यनुगतानुभवविषयत्वेन सिद्धसाधनात् / न चानुगतधर्मविषयत्वं साध्यम् / अप्रयोजकत्वात् / तत एव यद्विशेष्य कानुगतबुद्धिः सा तदनुगतविषयेति निरस्तम् घटत्वं घटत्वमित्याधनगतबुद्धौ व्यभिचारश्च / नानाविशेष्य. - ___एतदनुमाने वृत्तिज्ञान पक्षः तरिक्तानुभवो वा, उभयथाप्यनुपपत्तिरित्याहः पूर्ववादी-वृत्तीति घटेच्छा न भवति पटेच्छेत्युपाधिपरामर्शपूर्वकभेदस्य प्रमीयमाणत्वात्तत्र व्यभिचार इत्याह हेतोरिति / / सिद्धान्ती तावदनुभवानुगतबुद्धिर्जातिविषया अनुगतप्रमात्वादिति परान-- माने पक्षं विकल्पयति किं वृत्तीति / वृत्तावनुगतजात्यङ्गीकारादाद्य सिद्धसाधनमाह- नाद्य इति / द्वितीये तस्या. सिद्धावाश्रयासिद्धिः सिद्धौ वा वृत्तिव्यतिरिक्तानुभवसाधकमानेन तदेकत्वादेरपि सिद्धर्धर्मिग्राहकमानविरोध इत्यभिप्रेत्याह-न द्वितीय इति / तृतीये किं यथाश्रुतमेवः साध्यमुतानुगतविषयकत्वं किं वानुगतधर्मविषयकत्वम् ? नाद्यः घटकरकाद्यवच्छिन्नाकाशानुगतबुद्धौ व्यभिचारादित्याह-न तृतीय इति / मृत्तन्त्वादिकारणेषुः कारणत्वानुगतबुद्धौ व्यभिचारश्चेत्याह-औपाधिकेति / द्वितीयं सिद्धसाधनेन दूषयति-न चानुगतेति / अप्रयोजकत्वादेव नियमान्तरमप्यनुपपन्नमित्याह-तत एवेति / किश्व यद्विशेष्यकानुगतबुद्धिः सा तदनुगतविषयेत्यत्र किं बुद्धेरनुगतत्वमनेकविषयकत्वे सत्येकाकारत्वमुतानेकविशेष्यकत्वे सत्येकाकारत्वम् / आद्येऽनेक घटविषय
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy