SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 166 श्रीयतिदिनचर्या अवचूर्णियुता यद्वा श्लोकादिरूपनमस्कारादिभिर्जघन्या 1, अतो मध्यमा द्वितीया, सा तु स्थापनार्हत्सूत्रदण्डकैकस्तुतिरूपेण युगलेन भवति, अन्ये तु दण्डकानांशक्रस्तवादीनां पञ्चकं तथा स्तुतियुगलं-समयभाषया स्तुतिचतुष्टयं ताभ्यां या वन्दना तामाहुः, यद्वा दण्डकः-शक्रस्तवः स्तुत्योर्युगलं-अरिहंतचेइयाणं स्तुतिश्चेति, यतः आवश्यकचूर्णौ स्थापनार्हत्स्तवचतुर्विंशतिस्तवश्रुतस्तवाः स्तुतयः प्रोक्ताः, एते मध्यमचैत्यवन्दनादयो भेदाः, उत्कृष्टा - विधिपूर्वकशक्रस्तवपञ्चकनिर्मिता, यद्वा उत्कृष्टा तु शक्रस्तवादिपञ्चदण्डकनिर्मिता जयवीयरायेत्यादिप्रणिधानान्ता चैत्यवन्दना स्यात्, अन्ये तु शक्रस्तवपञ्चकयुतामाहुः, तत्र वारद्धयं चैत्यवन्दना प्रवेशत्रयं निष्क्रमणद्वयं चेति पञ्च शक्रस्तवाः // 64 // अथ चैत्यवन्दनानन्तरं साधोर्गोचरचर्याकालः कथमित्याह - खित्तंमि जत्थ जो खलु गोअरचरियाए वट्टए कालो / तं साहिज्जसु पोरसिजुअलं पुण तयणुसारेण // 65 // यस्मिन् क्षेत्रे-यत्र ग्रामादौ यः कालः अशनादिग्रहणलक्षणः खलु निश्चितं गोचरचर्याया वर्तते तं कालं साधुः साधयेत्, तदनुसारेण पुनःतस्य कालानुसारेण पोरसीयुगलं-सूत्रार्थलक्षणं विधेयम्, यदाहुः - "कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे / अकालं च विवज्जित्ता, काले कालं समायरे // 1 // अकाले चरसि भिक्खू, कालं न पडिलेहसि / अप्पाणं च किलामेसि, सन्निवेसं च गरिहासि // 2 // सइ काले चरे भिक्खू, कुज्जा पुरिसकारियं / अलाभुत्ति न सोइज्जा, तवृत्ति अहियासए // 3 // " // 65 // अथ गोचरचर्याकाले ज्ञाते साधुना किं किं विधेयमित्याशङ्क्याह
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy