________________ अष्टमः सर्गः 351 टीका-(हे दमयन्ति ! ) भवत्या त्वया अस्माकम् नः एतत् इदम् हृदयम् स्वान्तम् अन्तः अन्तरतमप्रदेशे तावत् निश्चितम् अध्यासितम् अधिष्ठितम् चिरकालात् त्वं नो हृदयमधितिष्ठसीति भावः / इदानीम् अधुना बहिः बाह्यप्रदेशे अपि उरः हृदयम् वक्षः इत्यर्थ: ( 'हृदयं वक्षसि स्वान्तम्' इत्यमरः ) त्वया श्रिया लक्ष्म्या मुरम् एतन्नामकम् असुरविशेषम् विद्विषत: तेन विद्वेषं कुर्वतः मुरारेः विष्णोरिति यावत् उरः इव अलङ्क्रयिताम् शोभितं क्रियताम् / लक्ष्मीः यथा विष्णोः वक्ष : समलंकरोति तद्वत् त्वमप्यस्माकं वक्षः अलंकुर अस्मान् वृत्वा आलिङ्गेति भावः // 95 // ___व्याकरण - भवत्या भवतीति /भू + डवत् + ङीप् ( पूज्ययेत्यर्थः ) / अध्यासितम् अधि + /आस् + क्त ( कर्मणि ) अधि उपसर्ग के साथ आस् धातु सकर्मक हो जाता है / इदानीम् इदम् + दानीम् / विद्विषतः वि + /द्विष + शतृ 'न लोका०' ( 2 / 3 / 69 ) से षष्ठी निषेध होकर द्वि० / अलंक्रियताम् अलम् + कृ + लोट् ( कर्मवाच्य ) / अनुवाद- "( दमयन्ती ! ) आप कभी से हमारे हृदय के अन्तरतम प्रदेश में बैठी हुई हैं ही, ( किन्तु ) अब हृदय के बाह्य प्रदेश-वक्ष को ( भी ) उसी प्रकार अलंकृत करें जैसे लक्ष्मी मुरारि ( विष्णु ) के वक्ष को ( अलंकृत करती हैं ) // 95 / / टिप्पणी- क्योंकि तुम चिरकाल से हमारे हृदय की रानी बनी हुई हो, इसलिए हमें अपनाने में अब संकोच काहे का ? दमयन्ती की श्री के साथ तुलना में उपमा है; 'मुरो' 'मुरं' में छेक, अन्यत्र वृत्त्यनुप्रास है। दयोदयश्चेतसि चेत्तवाभूदलं कुरु द्यां विफलो विलम्बः / भुवः स्वरादेशमथाचरामो भूमौ धृति यासि यदि स्वभूमौ // 96 // अन्वयः-( हे दमयन्ति ! ) तव चेतसि दयोदयः चेत् अभूत्, ( तहि ) द्याम् अलङकुरु, विलम्बः विफल:, अथ स्वभूमो भूमौ धृतिम् यासि, ( तर्हि ) भुवः स्वरादेशम् आचरामः / ___टोका-( हे दमयन्ति ! ) तव ते घेतसि मनसि दयायाः अस्माकम् उपरि करणायाः उदयः आविर्भावः (10 तत्पु० ) चेत् यदि अभूत् जातः तर्हि धाम् स्वर्गम् अलंकुरु सुशोभितं कुरु, विलम्बः अस्मद्-वरणे कालातिपातः विफल: व्यर्थः