SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। 5633 मीनिभैरस्तं स्वमवेत्य दूत्या मुखात् किलेन्द्रप्रमुखा दिगीशाः / स्पन्दे मुखेन्दौ च वितत्य मान्द्यं चिंत्तस्य ते राजसमाजमीयुः // 17 // भैमीति / अथ पूर्वोक्ताश्चत्वार एव इन्द्रप्रमुखा दिगीशा दूस्याः स्वप्रेषितदूतिकायाः मुखात् स्वमात्मानं भैम्या निरस्तं परिहृतमवेत्य ज्ञात्वा चित्तस्य मान्द्यं विषादजाडयं स्पन्दे गत्यां मुखेन्दौ च वितत्य प्रकाश्य विषादात् मन्दगतयो विवर्णमुखाश्च. भूत्वेत्यर्थः / एतेन सानुभावो विषाद उक्तः। राजसमाजमीयुः किल // 17 // इन्द्र आदि दिक्पाल दूतोके मुखसे दमयन्तोके द्वारा अपनेको निरस्त ( अस्वीकृत) जानकर चित्तकी (पाठा०-धीरे-धीरे ) मन्दता (विषादज जड़ता) को गमन तथा मुखचन्द्र में भी विस्तृतकर अर्थात् विषादसे मन्दगति एवं उदासीन मुख होकर वे राजसमूहमें पहुँचे // 17 // नलभ्रमेणापि भजेत भैमी कदाचिदस्मानितिशेषिताशा / अभून्महेन्द्रादिचतुष्टयी सा चतुर्नली काचिदलीकरूपा // 18 // अथोपायान्तरवैफल्यादिन्द्रादयःतां वञ्चयित्वा ग्रहीतुं प्रवृत्ता इत्याह-नलेति / अथ राजसभाप्राप्त्यनन्तरं सा महेन्द्रादीनां चतुष्टयो भैमी कदाचित् कस्याञ्चिद्वेलायां नल इति भ्रमेण भ्रान्त्याप्यस्मान् भजेत वृणीतेत्येव शेषिताशा एतावन्मात्रावशेषित मनोरथा सती। उपायान्तरोपगमादिति भावः / अलीकरूपा काल्पनिकस्वरूपा अत. एव काचिदनिर्वाच्या चतुर्नली नल चतुष्टयी अभूत् / चत्वारोऽपि नलरूपं दधुरियर्थः। 'तद्धितार्थेत्यादिना समाहारद्विगावकारान्तोत्तरपदत्वात् स्त्रियां 'द्विगो रिति ङीप // 'दमयन्ती नलके भ्रमसे (नल समझकर ) भी हमलोगोंको वरण कर ले' एकमात्र इस बची हुई आशावाले इन्द्र आदि चारों दिक्पाल असत्य रूपवाले कोई अर्थात् अनिर्वचनीय ( अपूर्व) चार नल बन गये / [ इन्द्रादिने कपट से नल का रूप धारण कर लिया ] // 18 // प्रयस्यतान्तद्भवितुं सुराणां दृष्टेन पृष्टेन परस्परेण / तद्वैतसिद्धिन बतानुमेने स्वाभाविकात् कृत्रिममन्यदेव // 19 // प्रयस्यतामिति / असः स भवितुं तद्भवितुं नलीभवितुं तच्छब्दात् 'अभूततद्भावे चिः' / प्रयस्यतां प्रयतमानानां यस्यतेः देवादिकाल्लटः शत्रादेशः। सुराणां सम्ब. न्धिनि द्वयोर्भावो द्विता, द्वितैव द्वैतं, प्रज्ञादित्वात् स्वार्थे ऽण्प्रत्ययः। तस्य नलस्य वैतं तसिद्धिद्वितीयनलस्वसिद्धिः / तदत्यन्तसारूप्यसिद्धिरिति यावत् / दृष्टेन असौ नलतुल्यो जातो न वेति जिज्ञासितेन, परस्परेण नानुमेने। अतिप्रयासेनापि नलतुलां नारोहदेवेति भावः। बतेति खेदे। तथा हि-स्वाभाविकात् स्वभावसिद्धाद्रुपात् क्रियया निर्वृत्तं कृतकं रूपं 'ड्वितःवित्रः,' 'क्त्रेमम्नित्यम्'इति वित्रर्मप च / अन्यद्विलक्षणमेव हीनमेवेत्यर्थः / सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥१९॥ 1. 'चिरस्य' इति पाठान्तरम् /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy