SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ नेषधीयचरितं महाकाव्यम् अप् प्रत्यय: स्वयंवरस्य भूः स्वयंवरभूः तां स्वयंवरभुवम् / आयुः = आङ् पूर्वकाद् याधातोर्लङ् 'लङः शाकटायनस्य' इति वैकल्पिकः झेर्जुसादेशः, 'कन्या वरयते रूपं माता वित्तं पिता श्रुतम् / बान्धवाः कुलमिच्छन्ति मिष्ठान्नमितरे जनाः' इति वचनात् सकलवरगुणविशिष्टा इत्यर्थः / . भावः-शम्बरारिकृतनकरूपकाः यक्षराजयिनेजसम्पदः / शस्त्र-शास्त्रकुशला नृपपुत्रास्तां स्वयंवरभुवं समवापुः // अनुवाद:-नल के चले जाने के बाद शस्त्र विद्या (धनुर्वेद ) एवं वेदवेदाङ्गादि विद्या के पारङ्गत कुलीन कामदेव के द्वारा शम्बरासुर के जीतने के लिये माया से रचे गये अनेक शरीर के समान कान्ति वाले एवं कुबेर से भी अधिक सम्पत्ति वाले राजकुमार रथों से दमयन्ती के स्वयंवरमण्डप में आये // 1 // नाभूदभूमिः स्मरसायकानां नासीदगन्ता कुलजः कुमारः। नास्थादपन्था धरणेः कणोऽपि व्रजेषु राज्ञां युगपद् व्रजत्सु / / 2 / / अन्वयः-कुलजः कुमारः स्मरसायकानाम् अभूमिः अगन्ता न अभूत् राज्ञां व्रजेषु युगपद् व्रजत्सु धरणेः कणः अपि अपन्था न अस्थात् / व्याख्या-कुलजः = कुलीनः, कुमारः = राजपुत्रः, स्मरसायकानाम् = कामबाणानाम्, अभूमिः अविषयः, अगन्ता= अप्रयाता; न = नहि, अभूत् = आसीत्, राज्ञाम् = नृपाणाम्, व्रजेषु = समूहेषु, युगपद् = एककालम्. व्रजत्सु=गच्छत्सु, धरणेः- पृथिव्याः, कणः=लेशोऽपि, अपन्थाः-अमार्गः, न% नहि, अस्थात् = स्थितः। टिप्पणी-कुलजः = कुले जातः कुलजः 'सप्तम्या जनेर्डः' इति डप्रत्ययः ( उपपद समासः ) / राजपुत्रः = राज्ञः पुत्रः राजपुत्रः (ष. तत्पु० ). / स्मरसायकानाम् = स्मरस्य सायकाः स्मरसायकाः तेषां स्मरसायकानाम् (ष० तत्पु०)। अभूमिः =न भूमिः अभूमिः ( नन् तत्पु०)। अगन्ता (पूर्ववत्समासः) व्रजत्सु (व्रज+शतृ)। अपन्थाः -न पन्था अपन्था ( पथोविभाषा' ) इति वैकल्पिकः समासान्तोऽत्र न जातः / अस्थात्-स्थाधातोलुंड 'गतिस्थेति सिचोलुंक् / भाव:-तदाऽखिलाः कामशरप्रविद्धाः कुलप्रसूताः क्षितिपालपुत्राः / संप्रस्थिता एकपदे समस्ता मार्गीकृता तेन समैव भूमिः // 2 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy