________________ 298 नैषधीयचरितं महाकाव्यम् नासापथधावनश्रमः = नासायाः पन्था नासापथः ( ष० त० ), तेन धावनं ( तृ० त० ) तस्य श्रमः ( 10 त० ) / इस पद्य में दृष्टान्त अलङ्कार है / / 4 / / तपोऽनले जुह्वति सूरयस्तनूदिवे फलायाऽन्यजनु विष्णवे / करे पुनः कर्षति सेव विह्वला बलादिव त्वां वलसे न बालिशे ! // 45 // अन्वयः- सूरयः = अन्यजनुर्भविष्णवे दिवे फलाय तनूः तपोऽनले जुह्वति, त्वां पुनः सा एव विह्वला ( सती ) बलात् इव करे कर्षति; हे बालिशे ! न वलसे / / 45 // व्याख्या-सूरयः = विद्वांसः, अन्यजनुभविष्णवे = जन्मान्तरभाविन्य, दिवे = स्वर्गाय एव, फलाय = प्रयोजनाय, तनूः = शरीराणि, तपोऽनले = चान्द्रायणादितपस्यारूपाऽग्नी, जुह्वति = प्रक्षिपन्ति, त्वां पुन: - त्वाम् एव, मा एव = द्यौः ( स्वर्गः ) एव, विह्वला - विक्लवा सती, बलात् इव = बलात्कारान् इव, करे= हस्ते, गृहीत्वेति शेषः, कर्षति = आकर्षति, हे बालिशे = हे मूढ़े !, न वलसे = न चलसि, न इच्छसीति भावः // 45 // अनुवादः-विद्वान् लोग दूसरे जन्ममें मिलनेवाले स्वर्गरूप फलके लिए अपने शरीरको चान्द्रायण आदि तपस्यारूप अग्निमें हवन कर देते हैं, तुम्हींको वही स्वर्ग विह्वल होता हुआ बलात्कारसे हाथमें ग्रहण कर खींच रहा है, हे मूढ़े ! तो भी तुम विचलित नहीं होती हो ( इच्छा नहीं करती हो ) / / 45 / / टिप्पणी - अन्यजन भविष्णवे = भविष्यतीति भविष्णुः, भु धातुसे "भुवश्च" इस सूत्रसे इष्णुच् प्रत्यय / "भूष्णुर्भविष्णुर्भविता" इत्यमरः / अन्यच्च तत् जनुः ( क० धा०), तस्मिन् भविष्णुः, तस्य ( स० त० ) / तपोऽनले = तप एव अनल:, तस्मिन् ( रूपक)। जुह्वति हु + लट् + झि / “अदभ्यस्तात्" इससे झिके स्थान में अत् आदेश / वालिशे = शिशावशे च बालिशः" इत्यमरः / इस पद्य में रूपक अलङ्कार है / / 45 // यदि स्वमुबन्धुमना विना नलं भवेभवन्ती हरिरन्तरिक्षगाम् / दिवि स्थितानां प्रथितः पतिस्ततो हरिष्यति न्याय्यमुपेक्षते हि कः ? // 46 / / अन्वय:- ( हे दमयन्ति ! ) नलं विना स्वम् उद्वन्धुमना भवे: यदि, ततः अन्तरिक्षगां भवन्ती ( त्वाम् ) दिवि स्थितानां प्रथितः पतिः हरिः हरिष्यति / हि न्याय्यं क उपेक्षते ? // 46 // व्याख्या-नलालाभे हुताशनादिना मरिष्यामीति (9-35 ) यदुक्त पद्मचतुष्टयेन तत्रोत्तरमाह--यदीति / नलं विना = नैषधं विना, नलाऽलाभ