________________ मेषधीयचरितं महाकाव्यम् आसज्य राजकस्य = राजसमूहस्य, दृशा नेत्रेण, क्वापि = क्वचनापि, न =नहि, घातृकृतावकाशाम् = विधातृविहितावसराम् / विभूषाध्युतरोत्तरदमयन्तीपरिच्छेदेषु सौन्दर्याधिक्यलाभलोभात् व्याप्यस्थिराभ्यस्त दृग्यः पूर्णरूपेण स्पष्टं द्रष्टुं धात्रा अदत्ता वसरा ताम् / टिप्पणी-सान्द्राश्च ताः मणिप्रभास्तासु (कर्मधारयः ) / राजकस्य-राजकानां समूहः राजकम्-गोत्रोक्षेत्यादिना राजशब्दाद् वुज / राजकानां पुरस्तादृशो भूषणे चांशुके रत्नभासां चय वै ततः / सम्प्रसक्ता विधाता न ताभ्यो ददे निर्भरं तां प्रद्रष्टुं क्षणोऽपि क्षणम् // अनुवादः-राजसमूह की दृष्टियाँ पहले दमयन्ती के भूषण को देखने में लग गयीं, बाद में उससे अधिक सुन्दर वस्त्रों के देखने में उसके बाद उससे भी अधिक सुन्दर उसके घने रत्नों की कान्ति को देखने में लग गयीं विधाता ने राजाओं के नेत्रों को जिसे पूरा देखने का अवसर नहीं दिया ऐसी दमयन्ती। प्राक् पुष्पवर्षेवियतः पतद्भिर्द्रष्टुं नदत्तामथ तद्विरेफैः / तद्भीतिभुग्नेन ततो मुखेन विधेरहो ! वाच्छितविघ्नयत्नः // 101 // अन्वयः-प्राक् वियतः पद्भिः पुष्पवर्षः अथ तद्विरेफः ततः तद्भीतिभुग्नेन मुखेन च द्रष्टुम् न दत्ता विधे वाञ्छितविघ्नयत्नः अहो। व्याख्या--प्राक् =प्रथम् वियतः = आकाशात् पतद्भि.= अवाचीनमायच्छद्भिः। पुष्पवर्षेः = कुसुमवृष्टिमिः, अथ = अनन्तरम्, तद्विरेफ = तत्पुष्प. संसक्तभ्रमरैः, ततः = तदनन्तरम्, तद्भीतिमुग्नेन = भृङ्गभीतिनिचीनेन = मुखेन = आननेन च द्रष्टुं अवलोकयितुम् न दत्ताम् (ब्रह्मणेति शेषः) विधे = ब्रह्मणः, वाञ्छितविघ्नयत्नः, लिप्सितलाभव्याघात अहो आश्चर्यम् / टिप्पणी-तद्भीतिभुग्नेन = तेभ्यो भीतिः तद्भीति: "पञ्चमी भयेन" ( इति पञ्चमी तत्पुरुषः ) तया भुग्नेन (तृ० तत्पु० ) भुजेः क्तः "ओदितच" इति निष्ठानत्वम् द्रष्टुम् = दृशेस्तुमुन् "सृजिदृशोरि"त्यमागमे यण् / 'बचभ्रस्जे"त्यादिना षत्वं ष्टुत्वं च / वाञ्छितविघ्नयनः = वाञ्छितस्य विघ्नः तस्मिन् यत्नः / (ष० स० तत्पु०)। पुरस्तान् पतन्त्या दिवः पुष्पवृष्ट्या तदाऽऽकृष्टमृगस्ततो विनितश्व / निचीनेन वक्रेण तद्भीतितत्र न दत्ता प्रद्रष्टुं विषेर्वक्रताऽहो / .