________________ गणपाठः]] हैमपश्चपाठी. उपसद् सदस् अदस् अनसू मनस् विपाश् दिश् दृश् विश् उपानह् अनडुङ् चतुर् दिव् / 764 साक्षादादिश्च्व्यर्थे // 3 // 1 // 14 // साक्षात् मिथ्या चिन्ता भद्रा रोचना लोचना अमा आस्था अग्धा प्राजर्या प्राजुरा प्राजरुहा बोजर्या बीजरुहा संसर्पा / अर्थे अग्नौ वशे विकपने प्रकपने विसहने प्रसहने / अर्थप्रभृतयः सप्तम्येकवचनान्तप्रतिरूपकाः स्वभावात् निपाताद्वा / लवणम् उष्णम् शीतम् उदकम् आर्द्रम् / लवणादीनामेतत्सूत्रविहितगतिसंज्ञासंनियोग एव मान्तत्त्वं निपात्यते / प्रादुस् आविस् नमस् इति साक्षादादिः। 7:3 प्रात्यषपरिनिरादयो गतक्रान्तकृष्टग्लानक्रान्ताद्यर्थाः प्रथमाद्यन्तैः // 3 // 1 // 47 // प्रादयः-प्रगत आचार्यः प्राचार्यः। एवं प्रान्तेवासी / प्रवृद्धो गुरुः प्रगुरुः / प्रकृष्टो वीरः प्रवीरः / संगतोऽर्थः समर्थः। विरुद्धः पक्षः विपक्षः। प्रत्यर्थी पक्षः प्रतिपक्षः / प्रतिबद्धं वचः प्रतिवचः / उपश्लिष्टः पतिरुपपतिः / उपपन्नोऽनुकूलः प्रतिकूलो वा नायकः उपनायकः / अनुनायकः। प्रतिनायकः। अत्यादयः-अतिक्रान्तः खट्वामतिखट्वः। उद्तो वेलामुढेलः। प्रतिगतोऽक्षं प्रत्यक्षः / अनुगतः प्रतिगतो वा लोमानि अनुलोमः / प्रतिलोमः / अभिप्रपन्नो मुखमभिमुखः। _ अधादयः-अवक्रुष्टः कोकिलया अवकोकिलः / परिणद्धो वीरुद्भिः परिवीरुत् / संनद्धो वर्मणा संवर्मा / अनुगतमर्थेनान्वर्थ नाम / संगतमक्षेण समक्षं वस्तु / वियुक्तमर्थेन व्यर्थं वचः / संगतमर्थेन समर्थ पदम् / / पर्यादयः-परिग्लानोऽध्ययनाय पर्यध्ययनः / उद्युक्तः संग्रामाय उत्संग्रामः। शक्तः कुमार्यै अलंकुमारिः / शक्तः पुरुषेभ्यः अलंपुरुषीणः / अलंशब्दस्य चतुर्थ्यन्तेन वक्यमपीच्छन्त्यन्ये / अलं जीविकायै अलंजीविकः / अलं कुमार्यै अलंकुमारिः। निरादयः-निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः / अपगतः शाखायाः अप. शाखः। अन्तर्गतोऽगुल्या अन्तरङ्गुलो नखः। उत्क्रान्ता कुलादुत्कुला कुलटा / एवमुढेलः समुद्रः / उच्छाखं वचः। उत्सूत्रो न्यायः / उच्छृखलः कलभः / अपगतमादपार्थम् / बहुवचनमाकृतिगणार्थम् / 775 अव्ययं प्रवृद्धादिभिः // 3 // 1 // 48 // पुनःप्रवृद्धं बर्हिः, पुनरुत्स्यूतं वासः / पुनर्निष्क्रान्तो रथः / पुनरुक्तं वचः। पुनर्नवं वयः / पुनःशृतं पयः। स्वर्यातः / अन्तर्भूतः। प्रातःसवनम् / उच्चै?षः। नीचैर्गतम् / अधस्पदम् / अनद्वा पुरुषः। असशक्तः पुरुषः / प्रायश्चित्तम् / सद्यस्क्रीः / प्राग्वृत्तम् / पुराकल्पः / श्वःश्रेयसम् / श्वोवसीयसम् / बहुवचनमाकृतिगणार्थम् / 780 सायाह्नादयः // 31 // 53 // सायमह्नः सायाह्नः / मध्यमह्नः मध्याह्नः / 121