________________ हैमपञ्चपाठी. [ हैमपूयमानयवम् / संहृतबुसम् / संह्रियमाणयवम् / एते प्रथमैकवचनान्ता एवान्यपदार्थे काले / देशेऽपीत्यन्ये / तेन खलेयवं पश्य, खलेयवेन कृतम् , खले. यवे कृतम् , इत्यादयः प्रयोगा असाधवः। द्वितीयादिविभक्त्यन्ता अपि एते साधव इत्यन्ये / नाभेरधः अधोनाभम् / निपातनादत् समासान्तः। पूर्वपदार्थप्रधानोऽयम् / तथा समत्वं भूमेः समभूमि / एवं समपदाति / पक्षे पूर्वपदस्य मान्तत्वमपि निपात्यते / समभूमि / समंपदाति / एतौ देशकालभावेष्वन्यपदार्थेष्वित्यन्ये / उत्तरपदार्थप्राधान्ये तु समा भूमिः समभूमिः, समपदातिरितिकर्मधारय एव / तथा शोभनत्वं समस्य शोभनत्वं समायाः शोभना समा यत्र सुषमम् / एवं विषमम् / निःषमं दुष्षमम् / अपरसमम् / उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव / शोभना समा सुषमा। शोभने समे सुषमे / समशब्देनाव्ययीभाव इत्यन्ये / तथा समाया आयतीत्वम् आयती समा यत्र आयती समेति वा आयतीसमम् / एवं पापसमम् / पुण्यसमम् / समशब्देन तृतीयासमास इत्यन्ये / आयत्या समम् आयतीसमम् ।एवं पापसमम् / पुण्यसमम् / तथा प्रकृष्टत्वं चाह्नः प्राणम् / निपातनादह्नादेशः। एवं प्ररथम् प्रमृगम् प्रदक्षिणम् / कालभावलक्षणेऽन्येपदार्थेऽपीत्यन्ये / प्रक्रान्तमहरस्मिन् प्राह्मम् / प्रगता रथा अस्मिन् प्ररथम् / प्रनष्टा मृगा अस्मिन् प्रमृगम् / प्रकृतो दक्षिणा अस्मिन् प्रदक्षिणम् / अन्यत्र प्रगता मृगा अस्मात् प्रमृगो देशः / देशेऽप्यन्ये / उत्तर पदार्थप्राधान्ये तु तत्पुरुष एव / प्रातः। प्ररथः। प्रमृगः। प्रदक्षिणा / तथैकत्वम न्तस्य एकोऽन्त इति वा एकान्तम् / देशेऽन्यपदार्थेऽपीत्यन्ये / एवं प्रान्तं समपक्षम् समानतीर्थम् समानतीरम् / तथा संप्रति असंप्रति अप्रदक्षिणानि यथासंख्यं वर्तमानावर्तमानवामेषु / तथा युद्धे इजन्तं च / केशाकेशि दण्डादण्डि द्विदण्डि द्विमुसलि / तिष्ठद्ग्वादिराकृतिगणः / तेन प्रसव्यम् अपसव्यम् यत्प्र. भृति तत्प्रभृति इतःप्रभृति इत्यादि सिद्धम् / ___742 द्विदण्ड्यादिः // 73 / 75 // द्वौ दण्डावस्मिन् प्रहरणे द्विदण्डि प्रहरति। एवं द्विमुसलि / उभादन्ति / उभयादन्ति / उभाबाहु / उभयाबाहु / उभौ हस्ता. वस्मिन् पाने उभाहस्ति पिबति / एवमुभयाहस्ति / उभापाणि / उभयापाणि / उभाञ्जलि / उभयाञ्जलि / उभौ कर्णावस्मिन् श्रवणे उभाकर्णि शृणोति / एवमु. भयाकर्णि / अन्ते वासोऽस्मिन् स्थानेऽन्तेवासि तिष्ठति अन्तेवासी गुरोरिति ताच्छीलिकान्तोऽन्य एव शब्दः / संहितानि पुच्छान्यस्मिन् सरणे संहितपुच्छि धावन्ति / एकः पादोऽस्मिन् गमने एकपदि गच्छति / समानौ पादावस्मिन् सपदि गच्छति / आच्यपादौ आच्यपदि शेते / एवं प्रोहपदि हस्तिनं वाहयति / निकच्य कौँ निकृच्यकर्णि धावति / तिष्ठद्गवादित्वादव्ययीभावः / उभाबाहु उभयाबाह्वित्यत्र निपातनादिजुलुपि स्थानिवद्भावादिजन्तत्वेनाव्ययीभावसंज्ञा विभक्त्यलुक् पादस्य पद्भावः समानस्य सभावश्चेत्यादि सर्व निपातनात् सिद्धम् / 749 शरदादेः // 43392 // शरद् त्यद् तद् यद् कियत् हिरुक् हिमवत्