SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ 778 हस्ती। सिद्धहैमबृहत्मक्रिया. [ कृदन्ते समुद्रः। चुरण स्तेये / तुरण बरणे सौत्रः / चुरुम्बः तुरुम्बश्च गहनम् / पुरत् अग्रगमने / पुरुम्बः आहारः / मुरत् संवेष्टने / मुरुम्बः मृद्यमानपापाणचूर्णम् / कुरत् शब्दे / कुरुम्बः अङ्कुरः / निपूर्वात् निकुरुम्बः राशिः। गृदृरमिहनिजन्यतिदलिभ्यो भः॥३२॥ एभ्यो भः प्रत्ययः स्यात् / गृत् निगरणे / गर्भः जठरस्थः प्राणी / दृश् विदारणे / दर्भः कुशः / रमि क्रीडायाम् / रम्भा अप्सराः कदली च / हनक हिंसागत्योः / हम्भा गोधेनुनादः। जनैचि प्रादुर्भावे / जम्भः दानवः दन्तश्च / जम्मा मुखविदारणम् / ऋक् गतौ / अर्भः शिशुः / दल विदारणे / दल्भः ऋषिः वल्कलं विदारणं च / इणः कित् // 328 // इंग्क् गतावित्यस्मात् किद् भः प्रत्ययः स्यात् / इभः कृशगशलिकलिकडिगर्दिरासिरमिवडिवल्लेरभः // 329 // एभ्योऽभः प्रत्ययः स्यात् / कृत् विक्षेपे। करभः त्रिवर्षः उष्ट्रः / श् हिंसायाम् / शरभः श्वापदविशेषः / गृत् निगरणे / गरभः उदरस्थो जन्तुः / पलफलशल गतौ / शलभः पतङ्गः। कलि शब्दसंख्यानयोः। कलभः हस्ती यौवनाभिमुखः / कडत् मदे / कडभः हस्तिपोतकः / गर्द शब्दे / गर्दभः खरः / रासृङ् शब्दे / रासभः स एव / रमि क्रीडायाम् / रमभः प्रहर्षः / वडः सौत्रः / वडभी वेश्माग्रभूमिका / ऋफिडादित्वाल्लत्वे वलभी / वल्लि संवरणे / वल्लभः स्वामी दयितश्च / सनात् // 330 // पण भक्तावित्यस्माद् डिदभः प्रत्ययः स्यात् / सभा परिषत् शाला च / __ ऋषिषिलुसिभ्यः कित् // 331 // एभ्यः किदभः प्रत्ययः स्यात् / ऋषैत् गतौ / वृष सेचने / ऋषभः वृषभश्च पुङ्गवः भगवाँश्चादितीर्थकरः / ऋषभः वायुः। लुसिः सौत्रः / लुसभः हिंस्रः मत्तहस्ती वनं च / सिटिकिभ्यामिभः सैरटिट्टौ च // 332 // आभ्यामिभः प्रत्ययो दन्त्यादिः सैरः टिट्टश्चादेशौ यथासंख्यं स्याताम् / पिंगट बन्धने / सैरिभः महिषः। टिकि गतौ / टिट्टिभः पक्षी / . ककेरुभः // 333 // ककि लौल्ये इत्यस्मादुभः प्रत्ययः स्यात् / ककुभः अर्जुनः। ___ कुकेः कोऽन्तश्च // 334 // कुकि आदाने इत्यस्मादुभः प्रत्ययः कश्चान्तादेशः। ककुभः पक्षिविशेषः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy