SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ ভত उणादिप्रकरणम् ] सिद्धहैमबृहत्पक्रिया. इत्यस्माच वः प्रत्ययः स्यात् / वल्वः वृक्षः / नितम्बः श्रोणिः पर्वतैकदेशः नटश्च / शम्यमोर्णिद्वा // 318 // आभ्यां वः प्रत्ययः सचणिद्वा। शमूच् उपचमे / शम्बः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रम् अरित्रं च। शम्बशाम्बौ जाम्बवतेयौ। अम्बा माता / आम्बः अपह्नवः / शल्यलेरुच्चातः // 319 // आभ्यां बः प्रत्ययोऽकारस्य चोकारः। पलफलशल गतौ / शुल्वं ताम्रम् / अली भूषणादौ / उल्वं रजतं गर्भवेष्टनम् / शुल्वं बम्भ्रुः तरक्षुश्च / तुम्बस्तम्बादयः // 320 // तुम्बादयः शब्दा बप्रत्ययान्ता निपात्यन्ते / ताम्यतेरत उत्वं च। तुम्बम् अलाबु चक्राङ्गं च / स्तम्भेलृक् च। स्तम्बः तृणं विटपः संघातः अरसमुदायः स्तबकः पुष्पापीडश्च / आदिग्रहणात् कुशाम्बादयो भवन्ति। कृकडिकटिवटेरम्बः // 321 // एभ्योऽम्बः प्रत्ययः स्यात् / डुकंग करणे / करम्बः दध्योदनः दधिसक्तवः पुष्पं च / कडत् मदे / कडम्बः जातिविशेषः जनपदविशेषश्च / कटे वर्षावरणयोः / कटम्बः पकानविशेषः वादित्रं च। कडम्बकटम्बौ वृक्षौ च / वट वेष्टने / वटम्बः शैलः तृणपुञ्जश्च / कदोर्णद्वा // 322 // कद वैलव्ये इत्यस्मात् सौत्रादम्बः प्रत्ययः स च णिद्वा। कादम्बः हंसः / कदम्बः वृक्षजातिः / शिलविलादेः कित् // 323 // शिलादिभ्यः किदम्बः प्रत्ययः स्यात् / शिलत् उन्छे / शिलम्बः ऋषिः तन्तुवायश्च / विलत् वरणे / विलम्बः वेषविशेषः रङ्गावसरश्च / आदिग्रहणादन्येऽपि / हिण्डिविले किम्बो नलुक् च // 324 // आभ्यां किदिम्बः प्रत्ययो नस्य च लुक् / हिडुङ् गतौ च, विलत् वरणे। हिडिम्बः विलिम्बश्च राक्षसौ / डीनीवन्धिधिचलिभ्यो डिम्बः // 325 // एभ्यो डिदिम्बः प्रत्ययः स्यात् / डीङ् विहायसा गतौ / डिम्बः राजोपद्रवः / णींग प्रापणे / निम्बः वृक्षविशेषः। बन्धंश् बन्धने / विम्बं प्रतिच्छन्दः देहश्च / विम्बी वल्लिजातिः। शृधूङ् शब्दकुत्सायाम् / शिम्बः मृगजातिः। शिम्बी निष्पाववल्ली च / चल कम्पने / चिम्बा यवागूजातिः। कुटयुन्दिचुरितुरिपुरिमुरिकुरिभ्यः कुम्बः // 326 // एभ्यः किदुम्बः प्रत्ययः स्यात् / कुटत् कौटिल्ये। कुटुम्बं दारादयः / उन्दैप् क्लेदने / उदुम्बः 98
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy