SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 453 यम् / पचतःकल्पम् / पचतोदेश्यम् / पचतोदेशीयम् / पचन्तिकल्पम् / पचन्तिदेश्यम् / पचन्तिदेशीयम्। पक्ष्यतिकल्पम् / अपाक्षीत्कल्पमित्यादि। पूर्ववन्नपुंसकबमेकवचनं च / इदमेव त्यादिग्रहणं ज्ञापकं शेषस्तद्धितो नाम्न एव भवति / ईषदसमाप्तः पटुः पटुकल्पः पटुदेश्यः पटुदेशीयः। कारककल्पः / कारकदेश्यः कारकदेशीयः। कृतकल्पम् / भुक्तदेश्यम् / पीतदेशीयम् / ईषदसमाप्तो गुडो गुडकल्पा गुडदेश्या, गुडदेशीया द्राक्षा। पयस्कल्पा यवागः। चन्द्रकल्पं मुखम् / तैलकल्पा प्रसन्ना। गुडादिधर्माणां माधुर्यादीनां द्राक्षादिष्वीषदसमाप्तखात् गुडादित्वेनेषदसमाप्ता द्राक्षादय एवमुच्यन्ते कल्पवाद्यन्तमुपमेये वर्तमानमुपमेयलिङ्गसंख्यम् / बहुप्रत्ययपूर्व तु प्रकृतिलिङ्गसंख्यम् / स्वभावाच्छदशक्तिरेषा यदुत स्वार्थिकाः केचित् प्रकृतिलिङ्गान्यतिवर्तन्ते यथा कुटीरः शुण्डारः शमीरुः शमीरः दैवतम् औपयिकम् औषधम् वाचिकमिति / केचित्तु नातिवर्तन्ते यथा यावकः मणिक: बृहतिका मृत्तिकाकास्तरी गोणीतरी व्यावक्रोशी व्यावहासीति / अतमबादेरिति किम् / यदा प्रकर्षादिविशिष्टस्येषदसमाप्तिविवक्षा तदा तमबादिभ्यः कल्पबादयः प्राप्नुवन्त्यतस्ते मा भूवन् / यदा वीषदसमाप्तस्य प्रकर्षादयो विवक्ष्यन्ते तदा कल्पबायन्तेभ्यस्तमबादयो भवन्त्येव / पटुकल्पतमः। पटुकल्पतरः। पटुदेश्यतमः। पटुदेश्यतरः। पटुकल्परूपः / पटुदेश्यरूपः / पकारौ पुंवद्भावार्थौ / दर्शनीयकल्पा / दर्शनीयदेश्या / केचिद् देश्यं पितं नेच्छन्ति तन्मते दर्शनीयादेश्या इत्येव भवति / देशीयर् इति रेफो रितीत्यत्र विशेषणार्थः / सौनदेशीया / पञ्चमदेशीया। 2246 नाम्नः प्राग्बहुर्वा // 7 // 3 // 12 // ईषदसमाप्तेऽर्थे वर्तमानान्नानो बहुप्रत्ययो वा स्यात् स च पाक्-पुरस्तादेव न परस्तात् / ईषदसमाप्तः पटुः बहुपटुः। बहुमृदुः। वहुभुक्तम् / बहुपीतम् / बहुगुडो द्राक्षा / बहुतैलं प्रसन्ना / बहुपयो यवागूः / बहुचन्द्रो मुखम् / नामग्रहणं त्याद्यन्तनिवृत्त्यर्थम् / त्याद्यन्तेषु सावकाशाः कल्पवादयो बहुना मा बाधिषतेति वावचनम् / तेन पक्षे तेऽपि भवन्ति / - 2247 न तमवादिः कपोऽच्छिन्नादिभ्यः // 7 // 3 // 13 // छिनादीन वर्जयित्वान्यस्माद्यः कप् प्रत्ययस्तदन्तात् तमबादिः प्रत्ययो न स्यात् / अयमेषामनयोर्या प्रकृष्टः पटुकः / प्रकर्षादिमतः कुत्सितत्वादिविवक्षायां तमबायन्तेभ्यः कप भवस्येव / अयमेषामनयोर्या अतिशयेन पटुः कुत्सितः पटुतमकः पद्धतरका पटुरूपका पटुक
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy