________________ 136 सिद्धहैमबृहत्प्रक्रिया. [ कारक मैत्रः पितुः / मातैवैनं निपुणं मन्यते पितैव साधुमित्यनर्चायां न भवति / अप्रत्यादावित्येव / निपुणो मैत्रो मातरं प्रतिपर्यन्वभि वा / 596 स्वेशेऽधिना // 2 / 2 / 104 // स्वे ईशितव्ये ईशे च स्वामिनि वर्तमानादधिना युक्ताद् गौणान्नाम्नः सप्तमी स्यात् / अधिः स्वस्वामिसंबन्धंद्योतयति। तत्र स्वस्वामिवाचिनोर्यद्गौणत्वेन विवक्ष्यते ततो भवति। अधि मगधेषु श्रेणिकः। अधि श्रेणिके मगधाः / षष्ठीवाधनार्थो योगः।। 597 उपेनाधिकिनि // 22 / 105 // उपेन युक्तादधिकिनि वर्तमानाद् गौणानाम्नः सप्तमी स्यात / उपेत्यधिकाधिकिसंबंधं द्योतयति / उप खाया द्रोणः। द्रोणोऽधिकः खार्या इत्यर्थः / उपेनेति किम् / खार्या उपरि द्रोणः। अधिकिनीति किम् / अधिके मा भूत् / तेनोप द्रोणे खारीति न भवति / 598 यद्भावो भावलक्षणम् // 2 / 2 / 106 // भावः क्रिया। प्रसिद्ध लक्षणमप्रसिद्ध लक्ष्यम् / यस्य संबंधिना भावेन क्रियया भावोऽपरक्रिया लक्ष्यते तस्मिन् वर्तमानाद गौणान्नाम्नः सप्तमी स्यात् / गोषु दुह्यमानासु गतः। अत्र कालतः प्रसिद्धन गवां दोहेन भावेनान्यस्य गमनमप्रसिद्धं लक्ष्यते / एवं देवार्चनायां क्रियमाणायां गतः। गम्यमानेनापि भावेन भावलक्षणे भवति। आनेषु कलायमात्रेषु गतः। अत्र जातेष्विति गम्यते / गम्यमानमपि हि विभक्तेनिमित्तं भवति / यथा वृक्ष शाखा, ग्रामे चैत्रः / अत्र भवति, वसति चेत्याधारनिमित्तं गम्यते / यत्र क्रियाणां कारकत्वं तद्विपर्ययो वा, यथा ऋद्धेषु मुंजानेषु दरिद्रा आसते / ऋद्धेष्वासीनेषु दरिद्रा भुंजते / यत्र क्रियानर्हाणामकारकत्वं तद्विपर्ययो वा, यथा, दरिद्रेष्वासीनेषु ऋद्धा भुंजते / दरिद्रेषु भुंजानेषु ऋद्धा आसते / अत्रापि भावो भावस्य लक्षणं भवतीत्यनेनैव सप्तमी। यद्ग्रहणं प्रकृत्यर्थम् / भाव इति किम् / यो जटाभिस्तस्य भोजनम् / भावलक्षणमिति किम् / यस्य भोजनं स मैत्रः / तृतीयापवादो योगः। 599 गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा / / 2 / 2 / 107 // कुतश्चिदवधेविवक्षितस्याध्वनोऽवसानमन्तः / यद्भावो भावलक्षणं तस्याध्वनोऽध्यवाचिशब्दस्याध्वन एवान्तेनान्तवाचिना सहकायें सामानाधिकरण्यं वा स्यात् , तद्विभक्तिस्तस्माद् भवतीत्यर्थः, गते गम्ये, गतशब्देऽप्रयुज्यमाने इत्यर्थः। गवीधुमतः सांकाश्यं चत्वारि योजनानि / चतुर्पु योजनेषु गतेषु भवतीत्यर्थः / पक्षे पूर्वेण सप्तमी / गवीधुमतः सांकाश्यं चतुर्पु योजनेषु / गतेष्विति गम्यते / गत इति किम् / दग्धेषु लुप्तेष्विति