SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ 1052 हैमपञ्चपाठी. बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः // 2 // ( अव० ) प्राणेषु असुषु वाच्येषु जीवः स्वतस्त्रिलिङ्गः / जीवः जीवा जीवं प्राणाः / केदारे वाच्ये वलजस्त्रिलिङ्गः / पवने धान्यपवनस्थाने खलशब्दस्त्रिलिङ्गः / वृत्तं मात्रादिच्छन्दः / वृत्तादीनामभिधा नामानि बहुलं लक्ष्यानुरोधेन त्रिलिङ्गानि / वृत्ताभिधा-श्लोकः पुटः पणव इत्यादि पुंसि / प्रमाणी समानी कलिका गाथा आर्या इत्यादि स्त्रियाम् / पक्त्रं वितानमित्यादि क्लीबे / दण्डकः पुनपुंसकः / वसंततिलकं स्त्रोक्लीवे उक्तम् / नक्षत्राभिधा तिष्यः पुनर्वसुःइत्यादि पुंसि / अश्विनी इल्वलाः चित्रा इत्यादि स्त्रियाम् / भं नक्षत्रं इत्यादि नपुंसकम्। मृगशिरः पुनपुंसकः। कस्यचित्पुरस्याभिधा द्रङ्गः द्राङ्गः निगमः इत्यादि पुंसि। पूः अमरावती अलकेत्यादि स्त्रियाम् / अधिष्ठानं पत्तनं दुर्गम् इत्यादि क्लीबम् / आदिशब्दो ग्रामदेशोपलक्षणम् / तेन वरणा ग्रामः गोदौ ग्रामः इत्यादि पुंसि / शालूकिनो ग्रामः / काञ्ची माढिश्च देश इत्यादि स्त्रियाम् / क्रोडं ग्रामः कुरुक्षेत्रं च देशः इत्यादि क्लीबे / आभरणाभिधा-तुलाकोटिः ताडङ्कः इत्यादि पुंसि / वालपाश्यापारितथ्याशब्दौ केशाभरणे, मेखला सप्तकी इत्यादि स्त्रियाम् / केयूराङ्गदे मुकुटम् अङ्गुलीयकम् इत्यादि क्लीबे / आवाप्यादयः पुंनपुंसकाः। हारः पुंनपुंसकः। रशनं स्त्रोक्लीबम् // 2 // भल्लातक आमलको हरीतकबिभीतकौ // तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ // 3 // ( अव० ) भल्लातकी आमलकी हरीतको बिभीतक्यादयो वृक्षभेदाः / ता. रका भम् / आढकी मानविशेषः / पिटका भाजनविशेषः फोटश्च / स्फुलिङ्गा अग्निकणाः / विडङ्गा औषधिविशेषः / अभिज्ञे त्वाश्रयलिङ्गः। तटी रोधः // 3 // पटः पुटो वटो वाटः कपाटशकटौ कटः / / पेटो मठः कुण्डनीडविषाणास्तूणकङ्कतौ // 4 // ( अव०) पटी वस्त्रविशेषः / पुटी पत्रभाजनम् / भूर्जाद्यवयये तु टान्तत्वात् पुंस्त्वमेव / वटो न्यग्रोधतरुः रज्जुश्च / वाटी वृत्तिः / यवविकारे वरण्डेऽङ्गे च बाहुलकात्पुंनपुंसकः / वर्त्मनि पुंस्त्वमेव / इकटीवास्तुनोस्तु स्त्रियाम्। कपाटी अररिः। जपादित्वाद्वत्वे कवाटी। शकटी अनः / कटो वीरणादिक्रतः। पेटी संघातः परिच्छदश्च / स्वार्थे के पेटिका / मठी आश्रयविशेषः / कुण्डी भाजनमेदः / नीडा कुलायः / विषाणी विषाणा वा गवादिशृङ्गम् दन्तिदन्तश्च / तूणो तूणा वा इषुधिः / कंकती केशमार्जनम् // 4 // मुस्तकुथेङ्गुदजृम्भदाडिमाः पिठरपतिसरपात्रकन्दराः // नखरो वल्लूरो दरः पुर छत्रकुवलमृणालमण्डलाः // 5 //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy