________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. 1051 तु स्त्रीत्वमेव / वणिज्या वणिज्यं वणिकर्म / वीर्या वीर्यम् अतिशयशक्तिः / अथ रान्ता दश / नासीरा नासीरमग्रयानम् / गात्रा गात्रं गजस्य पूर्वजङ्घादिभागः / अपरा अपरं गजस्य पाश्चात्यजङ्घा / मन्दिरा मन्दिरं गृहम् / समुद्रे तु पुंस्त्वमेव / नगरे तु क्लीबम् / तमिस्र तमः / तमिस्रा निबिडं तमः। सामान्यविशेषयोरभेदविवक्षया ऐकार्यम् / कोपे तु क्लीबम् / कृष्णपक्षनिशायां तु स्त्री। शस्त्री शस्त्रमायुधविशेषः नगरी नगरं पुरी। मसूरी मसूरं चर्मासनम् / त्वक्षीरी त्वक्क्षीरं वंशलोचना / कादम्बरी कादम्बरं मद्यविशेषः / सामान्य विशेषयोरभेदविवक्षायामित्थं निर्देशः। यदाह-' कादंबरं मद्यमेदे दघिसारे सीधुनि स्त्रियाम्। अथ लान्ता अष्ट / काहला काहलं शुषिरो वाद्यभेदः // 5 // स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यौ बडिशं च छर्दि च // अलाबु जम्बूडुरुषः सरः सदो रोदोऽचिषी दामगुणे बयट तयट् // 6 // ( अव० ) स्थाली स्थालं भाजनविशेषः। कदलो कदलं शाकादेर्नवनालम् / स्थली अकृत्रिमा चेत् कृत्रिमा तु स्थला / स्थलम् उन्नतो भूभागः / जाली जालम् आनायः समूहः गवाक्षश्च / पित्तला पित्तलमारकूटम् / गोला गोलं 'पत्राञ्जने कुनद्यां च गोदावर्या च मण्डले / सखीमणिकयोगोला गोलं लक्ष्यानुसारतः' // 1 // युगली युगलं युगम् / अथ शान्तः। बडिशा बडिशं मत्स्यबन्धनम् / बडिशीत्यपि क्वचित् / अथेदन्तः / इयं छर्दिः इदं छर्दि वान्तिः / श्यमलाबूः इदमलाबु तुम्बीलता / इयं जम्बूः इदं जम्बु जम्बूवृक्षफलम् / अनयोः क्लीबत्वे ह्रस्वता। उडुः उडु नक्षत्रम्। उषा उषः सन्ध्या / प्रभाते पुनपुंसकम् / सरः सरसी तडागः / सदः सदाः सभा। रोदः रोदसी द्यावापृथिव्यौ / अर्चिः 2 अग्निशिखा रश्मिश्च / दाम 2 बन्धनम् / गुणवाचि अयट्तयडन्तं नाम स्त्रीनपुंसकम् / यी वयम् / त्रयी त्रयम् / चतुष्टयी चतुष्टयम् / गुणिनि त्वाश्रयलिङ्गतैव / द्वये पदार्थाः द्वयी गतिः। द्रव्यं वस्तु / त्रयाणि जगन्ति / चतुस्रये कषायाः। चतुष्टयो शब्दानां प्रवृत्तिः इत्यादि // 6 // // इति श्रीक्लीबलिङ्गाः // // अथ स्वतस्त्रिलिङ्गाधिकारः // खतस्त्रिलिङ्गः सरकोऽनुतर्षे शलल: शले // करकोब्दोपले कोशः शिम्बाखड्गपिधानयोः // 1 // __ (अव० ) स्वतो नतु विशेष्यवशात् / अनुतर्षे मद्यपाने वाच्ये सरकशब्दत्रिलिङ्गः। सरकः सरका सरकम् / स्वतस्त्रिलिङ्ग इत्यधिकारः / शले श्वाविद्रोमणि वाच्ये शललशब्दस्त्रिलिङ्गः / शललः शलला शललम् / अब्दोपले मेघपाषाणे वाच्ये करकशब्दस्त्रिलिङ्गः। शिम्बायां बीजकोशे खड्गपिधाने प्रत्याकारे च कोशशखिलिङ्गः // 1 //