SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 253 वर्णितं तत्र संवरणाकुलस्वं कारणत्वेन सम्भावितमिति सम्भावनानुमानेनेयमुत्प्रेक्षेति / वाक्यकल्पः इति वाक्यकल्पनम् / उत्प्रेक्षावयवः इति / यत्र प्रधानक्रियाऽप्रधानक्रियाश्चोत्प्रेक्ष्यन्ते / उपेक्षितः इति / ततोऽसौ न स्वीकर्तयश्चमत्कारकारित्वाभावात् / पौरुषेय-इति / पौरुषेयव्यापार उत्प्रेक्षालक्षणः / अपूर्वरूपताम् इति / शफर्यादिरूपताम् / इत्यन्ये इति / तत एव च ध्वनिकारेण रूपकम्वनिरेवायमिति व्यपदिष्टम् / अस्मा- 5 भिरपि ध्वनिस्वरूपनिरूपणे तन्मतेनैव तथैव प्रागुपदर्शितम् / पल्लवेऽपि लक्षणाविचारे नृपतेर्भगवद्वासुदेवताक्षेपेण रूपकमेव प्रतीयमानं तथैवोपवर्णितमिति / निश्चयः इति / नेदमुपमेयमपि तूपमानमेव, नेदमुपमानमपि तूपमेयमेवेतिरूपः / तदभावे इति / नोपमेयं न चोपमानमिति कोटिद्वयसंस्पर्शे सति निश्चयाभावे इत्यर्थः / उपमेयमित्युपमानमिति च उपलक्षणपरे एते / तेनोपमानापह्नवेन यत्रोपमेयकथनं सोऽपि 10 संशयो दृश्यत इत्यर्थः। अत एव च विश्लेषः कथित इत्यादीन्युदाहृतानि। यो गोपीजन -इति / गोपीजनस्य न तु ममैवैकस्याः / ग्रामीणजनस्य न तु नागरकलोकस्य च / स्तनतटे न तु सिंहासने उत्तमाङ्गे च / छायावान् न त्वन्तःस्नेहनिर्भरः सारश्च / नवरक्तको न तु परिचितरागी स्थास्नुरागश्च / ईषदपरिसमाप्तगुणौ हीनगुणावुभावपि गुणाश्च दाक्षिण्यादयस्तन्तवश्च / चित्रः क्षणरक्तः विरक्तश्चित्रमानं चावस्तुरूपम् / चतुर्हस्तकोऽधिकहस्त- 15 युग्मोऽतिप्रलम्बश्च / श्यामौ द्वावपि सुखच्छेदको मूविधिश्चेति मुखे निन्दा परतः स्तुतिः। गोपी इति / सौभाग्याधिक्यं सौन्दर्याधिकत्वं च / स्तनेति मदनसर्वस्वभूतेऽङ्गे लब्धास्पदत्वादुभयोरपि श्लाघातिशयः / छायोभयत्राऽपि शोभा / प्रथमानुरागः सद्योरञ्जितश्च / अनेकगुणोऽसङ्ख्यतन्तुश्च / विस्मयहेतुर्नानावर्गश्च / हस्ताधिक्येन सकलत्रैलोक्यातिशायी। निखिलाङ्गगोपनेन कुलस्त्रीणां मुख्यमाच्छादनं च / कृष्णनामा श्यामवर्णश्च / भर्ता कम- 20 नीयश्चेति स्तुतिः / किं वा तेन इति / अत्र वातादय उपमानभूताः प्रतिषिद्धाः / एवमन्यदपि इति / प्रकारान्तरं सम्भवति / तच्च यथेति शेषः / एकस्य इति / उपमेयस्योपमानस्य वा / तच्छायात्वम् इति / एकत्वमुपमानप्रतिबिम्बत्वमुपमेयप्रतिबिम्बत्वं चेत्यर्थः / सम्भावना इति / साम्य -इति च / आभ्यां हेतुभ्यामुत्प्रेक्षासंस्पर्शः / स्वरूप- इति / अनेन च रूपकोल्लेखः // 25 रञ्जिता तु इति / अत्र तिमिरकर्तृकायां शैलगगनादिव्याप्तौ रञ्जितत्वमुत्प्रेक्षितं गगननामितत्वाद्युत्प्रेक्षान्तरसम्भवात् सन्देहमागतम् / निमीलद इति / अत्र निमीलदाकेकरलोलचक्षुष्ट्वादिषु साधारणेष्वनुभावेषु कार्यापरपर्यायेषु तैर्वा श्रमलक्षणं व्यभिचारिरूपं 1. कान्तपदस्य विवरणम् //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy