SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 252 कल्पलताविवेके श्यामप्रभाप्रसरणम् / लेपनादि इति / आदिग्रहणादञ्जनवर्षणम् / अत्रोपमानस्य इति / अधिरोहणपूर्वकढशिकर्मकस्य कस्यचित् पुरुषस्येत्यर्थः / ततः किम् इति / किलात्र नोत्प्रेक्षेति भवतोऽभिसन्धिः स न कश्चिदित्यर्थः / न हीतिविशेषणमन्यथा निरर्थकं भवेदिति प्रकारेण या हेतुता सा न हि परमार्थतश्चन्दनासक्तभुजगनिःश्वासानिलमूर्छितत्वसम्ब5 न्धस्य मलयमारुते असम्भवात् / कारणत्वेन इति / क्षामतागमनलक्षणे कार्ये इत्यर्थः / आपाण्डुगण्डपाली इति / अत्र मुखमुपमेयं तद्गतं च द्वितीयं मृगनाभिपत्रम् / उपमानं तु यथाक्रमं शशी लाञ्छनं च / एतस्य चोपमानशशिप्रतिबद्धस्य लाञ्छनस्योपमानान्तरस्य रूपेणोपमेयनायिकामुखगतमन्यदुपमेयं मृगनाभिपत्रं सारूप्यात् सम्भावितमिति सूत्रार्थ योजना। 10 कर्तुः इति / यत्र सत्यप्यौपम्ये तद्योतको नेवादिः समन्वयोपरोधात् तु कर्तुंरुपमान योगः सम्भाव्यत इति सम्बन्धः / विपरीताध्यवसानम् इति मिथ्याज्ञानम् / तदिव इति सादृश्यपक्षे / तदेव इति तु सम्भावनानुमानपक्षे योजनीयम् / काल्पनिकम् इति / कल्पितं हि सादृश्यं सातिशयमेव भवति / अत्र च इति / काल्पनिकसादृश्येन या उत्प्रेक्षा तस्मिन् पक्षे इत्यर्थः / उक्तचरम् इति / भामहे उपमाऽसम्भवदोषपरिहारे काव्यप्रकाशे 15 उत्प्रेक्षायां च / आपीड --इति मुखान्तर्गतरुतोपढौकनापेक्षमेत्येति पौर्वकाल्पम् / द्विरेफैः कृत्वा मकरध्वजेनाभ्यास्यमाने वेति सम्बन्धः / प्रधानक्रिया च वाक्यान्तरे / राशीभूतः इति / निर्वर्ण्यः कैलाशगिरिरत्र / निर्मोक -इति / उभयत्र निर्वा गङ्गा कर्म / तिक्खारुणं तम् इति / आराद् दूरात् भेद एव भेदो द्रुतिरेव विदारणं तत्रेत्यर्थः / लोके हि तीक्ष्णः शरादिपदार्थोऽङ्गविदारणे लग्नरुधिरलेशो दृश्यत इति तद्धर्मसादृश्ये नयनयुगगततीक्ष्णा20 रुणात्तत्त्वस्य विद्यमाने प्रस्तुतवस्तुधर्मोऽप्रस्तुतवस्तुधर्मत्वेन सम्भावित इत्युभयसाधनेय मुत्प्रेक्षा / नीसासा इति / हृदयस्थितः कुसुमबाणः पञ्चेषुरेव / कुसुमबाणाः बाणत्वेन रूपितानि कुसुमानि / तेषां मकरन्दलेश आकृष्टो यैस्ते तथेत्यर्थः / वसन्तर्तुविलासी ह्यनिलः आकृष्टकुसुममकरन्दलेशत्वेन सुरभिरनुभूयत इति तत्सादृश्ये सति रमणीनिःश्वास समीरणानां यदेतत् स्वभावसौरभं तद्वाह्य एव न सौरभकारणकत्वेनोत्प्रेक्षितमितीयमप्यु25 भयसाधनोत्प्रेक्षा / उत्फुल्ल-इति / अत्रापि पूर्ववदुभयसाधनत्वं भावनीयम् / अत्र चौऽसू त्रितार्थव्यतिरेकिवस्त्वन्तरविधानादपतिभ्रान्तिन विधातव्या / यतस्तस्याः प्रथमोद्भेदजीवितमुत्प्रेक्षा न पुनरपह्नुतिरेतस्याः / तच्च स्वयमेव व्यक्तीकरिष्यति / यत्सेनारजसाम् इति / अत्र ब्रह्मणः स्वाध्यायवन्ध्याननत्वं यदतिशयोक्त्योप१. क्रिया // 2. स्वाभाविक // 3. एतच्च क. ग. 2. // 4. त- ग. 2. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy