SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 234 कल्पलताविवेके भेदेनाध्यवसितमिति यावत् / कथंचिद् इति / केनचिन्मृगनयने इव नयने अस्या इत्येवंलक्षणेन / अत्रापि इति आयःशूलिकप्रभृतिष्वपि / तथैव इति / अतिशयोक्तित्वमन्यमते उपमाभेदत्वं च / आनुगुण्यस्य इति / एकान्तशीलत्वलोष्ठविघटनत्वादेः / उपसंक्रामति इति / कूलं कर्तृ / चूर्णिकारस्य इति महाभाष्यकारस्य। न तिङन्तेन इति आख्यातं 5 नोपमानं भवतीत्यर्थः / आगच्छामि इति आगच्छन्तम् इति च वर्तमानभाविभ्यां लट्शतृभ्याम् , आगममिति आगत इति च वेति विकल्पपक्षे भूतप्रत्ययावेव / एवमुत्तरत्र / घटपटादिषु इति / आदिग्रहणात् कमलमिव मुखमित्यन्वयिरूपवाक्यार्थतामनापन्नाः पदार्थमात्रस्वभावा मुखकमलादयोऽपि द्रष्टव्याः / परस्परपरिहारस्थितिलक्षणस्य वा इति / यद्यपि परस्परपरिहारस्थितिलक्षणो विरोधो मुखकमलादिषु परस्पररूपाननुप्रवेशा द्विद्यते 10 तथाऽप्युपमानोपमेयसाम्यस्वभावेयमुपमा / सा चोपमानोपमेययोः परस्परपरिहारस्थितिमवधीर्यान्वयिरूपपुरस्कारेण प्रवर्तते इत्यभिप्रायः / / मुखकमलादिषु इति / कमलमिव मुखमित्यादावन्वयिरूपप्रयोगे इत्यर्थः / आदिग्रहणाच पट इव घटोऽयन्तशुषिरतया जलच्यवनशील इत्यन्वयिरूपवाक्यार्थस्वभावा घटपटादयोऽपि लभ्यन्ते / शब्दप्रवृत्तिनिमित्तम् इति। पदार्थस्वभावं नन्वन्वयि15 वाक्यार्थरूपम् / तथा हि मा भूदन्वयिनि रूपे परस्परपरिहारस्थित्यात्मा विरोधः, ययोस्तु तदन्वयिरूपमुपमानोपमेययोस्तयोः सम्भवति परस्परपरिहारेणावस्थितिरित्याशयेनेदमुक्तम् / न वयं तात्पर्यापेक्षया उपमानोपमेययोर्विरोधं ब्रूमः, तात्पर्यार्थस्य साम्यस्वभावत्वात्, साम्ये च विरोधासम्भवात् / यस्य तु उपमानोपमेयशब्दप्रवृत्तिनिमित्तस्य साम्यरूपाया 20 निमित्तभूतपदार्थापेक्षयाऽत्र परस्परपरिहारस्थितिलक्षणो विरोधोऽङ्गीकृतः / साम्यस्य तु वाक्यार्थीभूतस्य नैमित्तिकत्वात्तदपेक्षया निर्विरोधत्वमेव / नोपमा इति / अपि त्वनन्वय एव / कर्म इति शूरत्वपूरयितृत्वादि / नाप्यत्यन्त इति / साम्याविवक्षायाम् इति गम्यम् / पुत्रेणेति वाक्ये आर्थं साम्यम् / वाक्याथै इति / यथा पुत्रः स्थूलस्तथा पितापीति वाक्यार्थस्य पुत्रे स्थूलत्वानुगममन्तरेगाऽसङ्गतः / 1. “कमलमिव मुखमित्यादा...... शब्दप्रवृत्तिनिमित्तमिति / ......तथाहि' अस्य स्थाने "कमलमिव मुखमित्यादौ प्रयोगे इत्यर्थः / शब्दप्रवृत्तिनिमित्तमङ्गीकृत्येति" ग. 1 पुस्तके एतावानेव पाठः // 2. जातिमात्रम् इति अधिकम् ख. पुस्तके एव // 3. वाक्यार्थतात्पर्यापेक्षया ख. पुस्तके एव // 4. अत्र वाक्यार्थासङ्गतेरिति इत्यधिकः पाठः / ग. 1 // 5. नोपमेति इत्यारभ्य वाक्यार्थति इत्यन्तः पाठो ग. 1 पुस्तके नास्ति // 6. तथा ग. 2 //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy