SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 233 इदं च इति / मुखं च चन्द्रबिम्बं च तुल्यम् / तद्वद् इति तुल्यादिशब्दोपादाने इवार्थीत्यर्थः / ध्वनि-इति। स्फुटं चेत् प्रतीयमानं ततो ध्वनिव्यवहारः / अस्फुटं चेत्तदा गुणीभूतव्यङ्ग्यव्यवहार इत्याशयः / तद् इति / रसादिरूपं व्यङ्ग्यमर्थमलङ्कारान्तरं च / तद्रहितत्वेन इति / ताभ्यां रसाधलङ्कारान्तराभ्याम् / अव्यभिचारितयैव इति विद्यमानमिति शेषः / करणीयम् इति कर्त्तव्यं कायव्यापारः / सत्यम् इति अवितथम् / त्रितय-5 मपि तथाऽप्यायकं वर्तत इत्यर्थः / यदि इति यदि वेत्सीति सम्बन्धः / वचनवृत्त्या इति सामानाधिकरण्यरूपया। विषम् इति। मन इति सम्बध्यते / अर्थों भवति इति विशेषरूपतया द्विरुपादानम् / निरन्तरः इति व्यावहारिको भवतीति सम्बध्यते / तेन इति / यत उपमा बलीयसी / द्वयम् इति शब्दार्थश्च गुणाश्चति / प्रत्ययम् इति कल्पपम् / यथा गौर्वाहीकः इति / सीमानाधिकरण्यसाधर्म्यमात्रेण दृष्टान्तोऽयम् / यथा परिहृतस्वार्थः 10 स्वार्थगतगुणमात्रप्रत्यायको गोशब्दः सदृशगुणवति वाहीके वर्तत इति भवति तत्र सामानाधिकरण्यं, गौर्वाहीक इति गोगुणसदृशगुणो वाहीक इत्यर्थः / एवं गुणविहीनविषजातीयवाची विषकल्पशब्दः सदृशजातौ मनसि वर्तिष्यत इति भविष्यत्यत्र सामानाधिकरण्यमिति / विषकल्पं मनः इति विषजातीयसदृशजाति मन इत्यर्थः तेन इति गुणहीनेन / विषेण विषजातीयेनेत्यर्थः / सहस्रायुधीयति इति / सहस्रायुधमिवात्मानमाचरतीत्यर्थः / 15 समास इति / समासेन सहैव यो नियोगो विधिस्तेन उष्ट्र एव मुखमस्येति रूपकसमासे भूयसी प्रसिद्धिरस्येति उपमानत्वेन निर्दिष्टम् / ... नन्वायःशूलिक इत्यादिषु भविष्यत्यस्याः स्थानमित्याशङ्कयाह-क्रूरस्य इति / कराचारोपमेय इति / तथाह्यत्रायःशूलमुपमानम् अर्थान्वेषणोपायः कश्चिदुपमेयः तीक्ष्णत्वादिः साधारणो धर्म उपमेयभावश्चेति चतुष्टयमवगम्यते / तन्मध्याच्च शब्दस्पृष्टमुप- 20 मानमयःशूलेनेति, शिष्टस्य तु त्रितयस्यार्थसामर्थ्यादवगतिः इति / जीवनक्रियाकरणम् इति / दण्डाजिनेनार्थानन्विच्छति दम्भेन जीवतीत्यर्थः / पार्श्वनॉर्थानन्विच्छति अनृजूपायेन जीवतीत्यर्यः / करणक्रिया इति / करणक्रियां प्रति विशेषणत्वं कर्मत्वं चेत्यर्थः / शीतं यर्थी करोतीत्यर्थः / एवमुष्णक इत्यत्राऽपि / अबच्छादित इति अवच्छादितं निगीर्णम 1. सामानाधिकरण्य ...... सहस्रायुधमिवात्मानमाचरतीत्यर्थः / अयं पाठो ग पुस्तके नास्ति / / 2. समास इति...... विधिस्तेन अयं पाठः ग , पुस्तके नास्ति // 3. अस्मात्प्राक उष्ट्रमुखवद् इति अधिकः पाठः ग. 1 // 4. नन्वायःशुलिक...... क्रूरस्य इति अयं पाठः ग 1 पुस्तके नास्ति // 5. उपमानोपमेय-क. ग. // 6. -करणस्वम् इति क. ग. 1 // 7. पार्श्वनान्विच्छति क. ख. // 8 यथा भवति तथा क ग 1 // 9. अवच्छादित इति...... द्रष्टव्याः। अयं पाठः ग, पुस्तके नास्ति // 30
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy