SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् यदि विनिवेश्येतां तदा श्लेषत्वकथाऽपि न स्यादित्यर्थः / किंच स्वयं च पल्लवेत्यत्र यदुपमा प्रतिभोत्पत्तिहेतुः श्लेष इत्युच्यते तदपि न समीचीनम् / गुणक्रियासाम्याभावेऽपि शब्दमात्रसाम्यादप्युपमा सद्भिरभ्युपगम्यत एव / तेनाऽत्रोपमैव श्लेषप्रतिभोत्पत्तिनिमित्तं भवितुमर्हतीत्याह-न चायम् इति / ननु च कमलमिव मुखं मनोज्ञमेतत् कचतितरां, स्वयं च पल्लवातानेत्यादिः साधारणगुणक्रियाशब्दप्रयोगयुक्तः श्लेषस्यैव विषय उपपन्नः। 5 कमलमिव मुखं प्रभातसन्ध्येव हिमाद्रेः सुतेत्यादिस्तु साधारणगुणादिप्रयोगशून्य उपमाया विषय इत्याह-न च इति / ननु नोमगुणक्रियोभयप्रयोगे पूर्णोपैमायाः शब्दमात्रप्रयोगे तु श्लेषस्याऽस्तु विषयः / मैवं यदि हि तद्व्यतिरिक्तः श्लेषस्य विषयो न स्यात्तदा भवेदेवम् / अस्ति च तद्व्यतिरिक्तोऽपि तस्य विषय इत्याह-देवत्वमेव इत्यादि / उपमाघलङ्कार-इति / आदिग्रहणेन विरोधैकदेशविवर्तिरूपकादयः समानन्यायाः संगृहीताः / 10 द्वयोर्योगः इति / यदि चाऽलङ्कारान्तरप्रतिभोत्पत्तिहेतुरत्र श्लेष इत्युच्यते तदा द्वयोरन्यत्र लब्धसत्ताकयोरङ्गाङ्गिभावेनाऽवस्थानात्तत्सङ्कर एव वक्तुमुचित इत्यर्थः / विधीयेत इति उच्चार्येतेत्यर्थः / युगपदनेकार्थेत्यादिवाक्ये तद्विधाने चेत्यनेकमिति युगपदिति च विशेषणसामर्थ्याऽऽवृत्त्या योजनीयमित्यभिप्रायः / अर्थप्रतिपादनयोः इति / अनेकमर्थं युगपद्वक्तुमित्येवंरूपतयेत्यर्थः / प्रतिपादनशब्देन च वक्तुमित्यत्र यः प्रकृत्यों वचनरूप: 15 स आख्यातः / पदश्लेषेऽपि इति / अर्थभेदाच्छब्दभेद इति हारपदभेदे पदानां श्लेषेऽपीत्यर्थः / पदाभेदाद इति / पद्म इत्यादेः पदस्याऽनेकार्थत्वाभावेन भेदाभावात् / अरिमेदः इति / अत्रारिमेदः पलाश इति वृक्षविशेषद्वयाऽभिधायित्वेन शत्रुमेदो मांसादनवाचित्वेन च श्लेषः / इत्यादिभिः इति वस्तुरूपैरुक्तैः / अन्यैरपि इति अमुक्तैः / क्रमानुरोधेन इति / अर्द्धगते तदक्षरागतगतिचित्रे दर्शिते श्लोकगतं तदर्शनीयं न तु 20 श्लोकद्वयगतम् / तद्धि भारविविरचितानुरूपमनन्तरमेव दर्शयिष्यते / अर्द्धगते पादान्तरागतम् श्लोकगतेऽर्द्धान्तरागतम् श्लोकद्वयगते च तत्र लोकान्तरागतमिति व्यपदेशविशेषाः प्रवर्तन्ते / तत्र च क्रियेत्यादि उपात्तायामेव क्रियायां तद्विशेषणं युज्यते नाध्याहृतायामिति क्रियाविहीनत्वेन नित्यं कमलवदना भक्तया महिषमथनी कामं रसिकहृदया नूनं लटभ- 25 1. -नामगुण ... ... ... ... अयं पाठः क. ग. पुस्तकयो स्ति // 2. -पूर्णोपमाया निर्विषयत्वं यद्यापद्यते तदापद्यतां किं कुर्महे श्लेषस्यापि हि विषय उपदर्शनीय एवेति चेदित्याहदेवस्वमेवेत्यादि उपमाद्यलङ्कारेति आदिग्रहणेन विरोधैकदेशविवर्तिरूपकादयः समानन्यायाः सगृहीताः विधीयतेति उच्चायतेत्यर्थः युगपदनेकार्थेत्यादिवाक्ये तद्विधाने चानेकपुस्तके अग्रे पाठो नास्ति। आदिग्रहणे ग. // 3. ग पुस्तके नास्ति // 4. पादान्तर //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy