SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 167 धृताऽपीत्यनुरागपरवशत्वेन गुरुवचनोल्लङ्घनमपि त्वया कृतमिति / प्रिये प्रिय इति परस्परजीवितसर्वस्वाभिमानात्मको रतिस्थायिभाव उक्तः / नवजलधरेति / असोढपूर्व प्रावृषेण्यजलदावलोकनं विप्रलम्भोद्दीपनविभावत्वेनोक्तम् / जीवत्येवेति / सापेक्षभावता एवकारेण करुणावकाशनिराकरणायोक्ता / अलङ्कारान्तरसङ्कीर्णो यथा स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभि र्यदपि विधृता दुःखं तिष्ठन्त्यपूर्णमनोरथाः / तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः // अत्र हि रूपकेण एकनलिनीनालानीतसलिलपानक्रीडादिषूचितानामपि हंसचक्रवाकादीनां रूपेण नायकयुगलकानामरूपितत्वान्नातिनिर्वहणैषितेति यथोक्तव्यञ्जकलक्षणानु- 10 गतेन प्रसाधितो रसः सुतरामभिव्यज्यते / स्मर एव नदीपूरः प्रावृषेण्यप्रवाहः, सरभसमेव प्रबुद्धत्वात् / तेन ऊठाः सांमुख्यमबुद्धिपूर्वमेव नीताः। अनन्तरं गुरव एव श्वश्रूप्रभृतयः सेतव इच्छाप्रसरनिरोधकत्वादथ च गुरवोऽलच्याः सेतवस्तैर्विधृताः प्रतिहतेच्छाः अत एवाऽपूर्णमनोरथास्तिष्ठन्ति / तथाऽपि परस्परोन्मुखतालक्षणेनाऽन्योन्यतादात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परस्पराभिलाष- 15 वाहयन्तीति / “अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिः” इत्युक्तम् / तत्र सङ्घटनास्वरूपमेव तावत् प्रथमं निरूप्यते / " असमासा समासेन मध्यमेन च भूषिता / / तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता // " 20 कैश्चिदित्यर्थः / तां केवलमनूबेदमुच्यते / ... "गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा / रसान्" अत्र च विकल्प्यं, गुणानां सङ्घटनायाश्चक्यं व्यतिरेको वा / व्यतिरेकेऽपि द्वयी गतिः / गुणाश्रया सङ्घटना सङ्घटनाऽsश्रया वा गुणा इति / तत्रैक्यपक्षे सङ्घटनाश्रयगुगपक्षे च गुणानात्मभूतानाधेयभूतान् वाss. श्रित्य तिष्ठन्ती सङ्घटना रेसादीन् व्यनक्तीत्ययमर्थः / यदा तु नानात्वपक्षो गुणाश्रयसङ्घ- 25 ... 1. विभावादिभूषणद्वारेण / -विभूषण- ग. // 2. परस्पर ख. पुस्तके एव // 3. गुणेभ्यो विविक्ततया विचार्यते / / 4. व्यतिरेकेऽपि ग. पुस्तके नास्ति // .. बहुवचनेनायर्थः सहीत इत्यादिपदम् क. ख / रसानिति बहुवचनेना-ग. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy