SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके प्रकरणाद्वयङ्ग्यत्वेनेत्यवगन्तव्यम् / व्यङ्ग्यत्वेऽप्यलङ्काराणां प्राधान्यविवक्षायामेव सत्यां ध्वनावन्तःपातः / इतरथा तु गुणीभूतव्यङ्ग्यत्वं प्रतिपादयिष्यते / अङ्गित्वेन व्यङ्ग्यत यामप्यलङ्कारागां द्वयी गतिः / कदाचिद्वस्तुमात्रेण व्यज्यन्ते, कदाचिदलङ्कारान्तरेण / तत्र " व्यज्यन्ते वस्तुमात्रेग यदालङ्कतयस्तदा / ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् / / " यस्मात्तत्र तथाविधव्यङ्ग्यालङ्कारपरत्वेनैव काव्यं प्रवृत्तम् / अन्यथा तु तद्वाक्यमात्रमेव स्यात् / " अलङ्कारान्तरव्यङ्ग्यभावे ध्वन्यङ्गता भवेत् / ___ चारुत्वोत्कर्षतो व्यङ्ग्यप्राधान्यं यदि लक्ष्यते // " 10 तासामेवालङ्कृतीनामलङ्कारान्तरैर्व्यङ्ग्यत्वे सतीत्यर्थः / वस्तुमात्रव्यङ्ग्यत्वेऽलङ्का रान्तरव्यङ्ग्यत्वे चालङ्काराणामनन्तरोदर्शितेभ्य एवोदाहरणेभ्यो विषय उन्नतव्यः। अर्थशक्त्युद्भवे हि ध्वनौ कविप्रौढोक्तिमात्रकृतशरीरत्वादिना त्रिप्रभेदं वस्तु वस्तुनोऽलङ्कारस्य च व्यञ्जकम् / अलङ्कारोऽपि तथैव त्रिप्रकारोऽलङ्कारस्य वस्तुनश्चेति / तत्र कविकविनिबद्धवक्तप्रौढोक्तिमात्रनिष्पन्नशरीराभ्यां वस्तुभ्यां स्वतःसम्भविना च वस्तुनेति त्रिभिर्वस्तुभिर्वस्तु सज्जेइ 15 [इत्याबुदाहरणत्रितये व्यङ्ग्यं दर्शितम् / त्रिप्रकारेणाऽलङ्कारेण च यत्र वस्तु व्यज्यते तदनन्तरमेव निदर्शयिष्यते / यश्च त्रिविधेन वस्तुनाऽलङ्कारेण चाऽलङ्कारो व्यङ्ग्यस्तस्य विषय उन्नेय इत्यर्थः / तथा हिप्राप्तश्रीरित्यादिना लावण्येत्यादिना च कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नेनालङ्कारेणालङ्कारः। धीराण रमइ इत्यादिना तं ताण इत्यादिना च स्वतःसम्भविना, स वक्तुमित्यादिना कवि20 प्रौढोक्तिमात्रनिष्पन्नेन चालङ्कारेणाऽलङ्कारः। हिअयदिएत्यादिना जाएजेत्यादिना च स्वतः सम्भविना वस्तुनाऽलङ्कारः / चन्दनासक्तेत्यादिना कविप्रौढोक्तिमात्रनिष्पन्नेन वस्तुनाऽलङ्कारः। ईसाकलुसस्सेत्यादिना कविनिबद्भवक्तृप्रौढोक्तिमात्रनिष्पन्नेन वस्तुनाऽलङ्कारः / त्रासाकुल इत्यादिना कविप्रौढोक्तिमात्रनिष्पन्नेन वस्तुनाऽलङ्कारः / रम्या इत्यादिनोदाहरणपञ्चकेन स्वतःसम्भविना वस्तुनाऽलङ्कारः / यत् कालागुरुपत्रेत्यादिना कविनिबद्धवक्तृप्रौढोक्तिमात्र25 निष्पन्नशरीरण वस्तुनाऽलङ्कारो व्यज्यते / किञ्च “वाच्यालङ्कारशक्तेस्तु वस्तु यत्र प्रतीयते / अनुस्वानोपमव्यङ्ग्यो मन्तव्यः सोऽपि च ध्वनिः // " 1. आत्मभूतध्वनिनिरूपणलक्षणात् //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy