SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ 151 शब्दालकारदर्शनम् विच्छेदाऽनलदीपितोत्कवनिताचेतोऽधिवासोद्भवं सन्तापं विनिनीषुरेष विततैरङ्गैर्नताङ्गि स्मरः // अत्र चन्द्रमण्डलमध्यवर्त्तिनो लक्ष्मणो वियोगाऽग्निपरिचितवनिताहृदयोदितप्लोषमलीमसच्छविमन्मथाकारतयाऽपह्नवो ध्वन्यते / अत्रैव ससन्देहध्वनिः / यतश्चन्द्रवर्त्तिनस्तस्य नामाऽपि न गृहीतम् / अपि तु 5 गौराङ्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्रभङ्गविच्छेित्यास्पदत्वेन यत् सारतामुत्कृष्टतामाचरतीति तन्न जानीमः किमेतद्वस्त्विति ससन्देहोऽपि ध्वन्यते / पूर्वमनङ्गीकृतप्रणयामनुतप्तां प्रणयिविरहोल्कण्ठितां वल्लभागमनप्रतीक्षापरत्वेन कृतप्रसाधनादिविधितया वासकसज्जीभूतां पूर्णचन्द्रोदयाऽवसरे दूतीमुखेनानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालागुरुपत्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी चेयं कुवलयदलश्यामला 10 कान्तिरेवमेव करोतीति प्रतिवस्तूपमाध्वनिरपि / सुधाधामनीति चन्द्रपर्यायतयोपात्तं पदं संतापं विनिनीषुरित्यत्र हेतुतामपि व्यनक्तीति हेत्वलङ्कारध्वनिरपि / त्वदीयकुचशोभा मृगा शोभा च सह मदनमुद्दीपयत इति सहोक्तिध्वनिरपि / त्वत्कुचसदृशश्चन्द्रश्चन्द्रसमस्त्वत्कुचाभोग इत्यर्थप्रतीतेरुपमेयोपमाध्वनिरपि / एवमन्येऽप्यत्र प्रभेदाः शक्योत्प्रेक्षाः, महाकविवाचोऽस्याः कामधेनुत्वात् / यतः हेलाऽपि कस्यचिदचिन्त्यफलप्रसूत्यै कस्याऽपि नाऽलमणवेऽपि फलाय यत्नः / दिग्दन्तिरोमचलनं धरणी धुनोति खात् सम्पतन्नपि लतां चलयेन्न भृङ्गः / / एषां तु भेदानां संसृष्टित्वं सङ्करत्वं च यथायोगं चिन्त्यम् / एवमन्येऽप्यलङ्काराः 20 कचिदलङ्कारो व्यञ्जकः क्वचिद्वस्त्विति यथायोगं योजनीयाः / एवमलङ्कारध्वनिमार्ग व्युत्पाद्य तस्य प्रयोजनवत्तां ख्यापयितुमिदमुच्यते / " शरीरीकरणं येषां वाच्यत्वेन व्यवस्थितम् तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गताः // " ध्वन्यङ्गता चोभाभ्यां प्रकाराभ्यां, व्यञ्जकत्वेन व्यङ्ग्यत्वेन च। तत्रेह 25 1. विच्छित्तेः सम्बन्धि अस्पदं स्थानमवकाशलक्षणो विषयो यस्य कलङ्करूपस्य वस्तुनस्तत्तथा, तस्य भावस्तत्त्वं / तत्स्थानीयत्वेनेति यावत् / तेन तत्स्था-ग.॥२ यः ग. // 3 इति चाटुकं करोति प्रियतमः इति सम्बन्धः / चाटुरूपता च प्रतिवस्तुनः, उपमानत्वेनोपयोगात् / ख. // 4. संसृष्टय 15
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy