SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् जीर्णताखलीकारं कदाचिदाप्तवन्त इति भावः / अत एव विगलन्ती नीला त्विट् येषामित्यनेन कतिपयकालप्रोषितस्याऽप्यौत्सुक्यनिर्भरत्वं ध्वनितम् / एवमात्मगतमियमुक्तिः यदि वा गोपं प्रत्येव सम्प्रधारणोक्तिः / इत्येवमादौ विषयेऽचेतनानां वाक्यार्थीभावेऽपि चेतनवस्तुवृत्तान्तयोजना अस्त्येव / अथ यत्र चेतनवस्तुवृत्तान्तयोजनाऽस्ति तत्र रसादिरलङ्कारः / तदेवं सत्युपमादयो 5 निर्विषयाः प्रविरलविषया वा स्युः / यस्मानास्त्येवाऽसावचेतनवस्तुवृत्तान्तो यत्र चेतनवस्तुवृत्तान्तयोजना नास्त्यन्ततो विभावत्वेन, तस्मादङ्गत्वेन रसादीनामलङ्कारता / यः पुनरङ्गी रसो भावो वा सर्वाकारमलङ्कार्यः स ध्वनेरात्मा / न केवलं रसवदलङ्कारस्योपमादीनां चाकृतपूर्वो विषयविवेकः कृतः, यावद् गुणानामलङ्काराणां च क्रियत इत्याह "तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः / अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् // " ये तमर्थ रसादिलक्षणमङ्गिन सन्तमवलम्बन्ते ते गुणाः, शौर्यादिवत् / वाच्यवाचक. लक्षणान्यङ्गानि ये पुनराश्रितास्तेऽलङ्कारा मन्तव्याः, कुण्डलादिवत् / तथा च "शृङ्गार एव मधुरः परः प्रह्लादनो रसः / तन्मयं काव्यमाश्रित्य माधुर्य प्रतितिष्ठति / / शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् / माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः // 15 रौद्रायो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः / तद्वयक्तिहेतू शब्दार्थावाश्रित्यौजो व्यवस्थितम् / / " ... - रौद्रादयो हि रसाः परां दीप्तिमुज्ज्वलतां जनयन्तीति लक्षैणया त एव दीप्तिस्त्युिध्यन्ते। तत्प्रकाशनपरः शब्दो दीर्घसमासरचनाऽलङ्कृतं वाक्यम् / यथा-चञ्चद्भुजभ्रमितइति / चञ्चद्भ्यां वेगावर्त्तमानाभ्यां भुजाभ्यां भ्रमिता या इयं चण्डा दारुणा गदा तया योऽभितः 1. निर्धारणेन पर्यालोचनेन वा // 2. रत्यादिचित्तवृत्तिव्यञ्जकत्वेन / रत्यादिचित्तवृत्तिजनकत्वेन ख. टि. // 3. सर्वप्रकारं सर्वथेति // 4 'तम्' इत्यत्र द्रष्टव्यम् ख.। यद्यपि श्यामत्वादयो गुणाः शरीरेऽपि सन्ति, तथापि न तद्गुणवति काव्यशरीरेऽलङ्काराणामपि समवायेनैव स्थितिरिति वक्तुं युक्तम् , एवं ह्यलङ्काराणामपि गुणत्वं स्यादिति यथोक्तरूप एव गुणालङ्कारप्रविवेकः / तथापि गुणवति काव्यशरीरे ग.। स्थितिरित्यलङ्काराणामपि ग, // 5. उत्तरार्द्ध दृष्टान्तस्य पर्यालोचनादध्याहृत्य व्याख्यातमिदम् // 6 अर्थात् सम्भोगः // 7 स श्रृङ्गार आत्मत्वेन प्रस्तुतो यत्र व्यङ्गयतया / व्यङ्गयतया तत् ग. // 8. प्रतिष्ठां लभते // 9. द्रुतिविस्तारविकाशकारिणो ह्यमो गुणाः ख. // 10. प्रकारार्थत्वेन वीराद्भुतौ // 11. विकाशविस्तरप्रज्वलनस्वभावामोजःशब्दवाच्याम् // 12 ओजसा रौद्रादयस्तैश्च स्वव्यक्तिहेतू शब्दार्थाविति लक्षितलक्षणा / / 13. ओजः / / 14. रौद्रादि / / 15. चअद्भुजभ्रमितचण्डगदाभिघातसम्भूणितोरुयुगलस्य सुयोधनस्य / स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः // ख. // . .
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy