SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके तथेह रूपकप्रकरणे' तरङ्गभ्रूभङ्गेत्यादिशब्दान्तरमहिम्नाऽनपद्भुतभेदयोरभेद इति नदीगते आविद्धत्वादौ तद्गतमेतदेवारोप्यत इति रूपकेऽप्याविद्धाविद्धमित्यादि न कृतं तद्रूपकप्रस्तावे कथमतिशयोक्तिरिति न वाच्यम् / इयं नदी सा भावेनाऽनुरागेण परिणतेति योजना, न तु नदीभावेन नदीत्वेनेति / तस्मादव्यक्ते गुणसन्दोहे" नपुंसकवचनमेव प्रयुज्यत इति कथ5 मियमिति स्त्रीत्वेन निर्देश इति न चोदनीयम् / यथा च-तन्वी मेघजार्देति / तन्वी इति वियोगकृशाऽपि / अनुतप्ता चाभरणानि त्यजति / स्वकालो वसन्तप्रीष्मप्रायः / उपायचिन्तनाथ मौनं चिन्तामौनम् / किमिति पादपतितमपि दयितमवधूतवत्यहमिति च चिन्तया मौनम् / चण्डी कोपना / एतौ श्लोको नदीलतावर्णनपरौ तात्पर्येण पुरूरवस उन्मादाक्रान्तस्योक्तिरूपौ। यथा वा 10 तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दशैलतनयातीरे लतावेश्मनाम् / विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः // हे भद्र तेषाम् इति ये ममैव हृदये स्थिताः / गोपवधूनां गोपीनां, ये विलास15 सुहृदो नर्मसचिवाः / प्रच्छन्नानुरागिणीनां हि नान्यो नर्मसुहृद्भवति / राधा च सातिशयं प्रेमस्थानमित्याह-राधासंभोगानां ये साक्षाद् द्रष्टारः / कलिन्दशैलतनया यमुना, तस्यास्तीरे लतागृहाणां क्षेमं कुशलमिति काका प्रश्नः / एवं तं पृष्ट्वा गोपदर्शनप्रबुद्धसंस्कारः आलम्बनो द्दीपनविभावस्मरणात् प्रबुद्धरतिभाव आत्मगतमोत्सुक्यगर्भमाह द्वारकागतो भगवान् कृष्णः / स्मरतल्पस्य मदनशय्यायाः कल्पनार्थं मृदु सुकुमारं कृत्वा यश्छेदत्रोटनं स एवोपयोगः 20 साफल्यम् / अथ च स्मरतल्पे यत् कल्पनं क्लप्तिः स एव मृदुः सुकुमार उत्कृष्ट छेदोपयोगस्त्रोटनफलं तस्मिन् विच्छिन्ने / मय्यनासन्ने का स्मरतल्पकल्पनेति भावः / अत एव परस्पराऽनुरागनिश्चयगर्भमेवाह- ते जाने इति / वाक्यार्थस्यात्र कर्मत्वम् / अधुना जरठीभवन्ति इति मयि तु सन्निहितेऽनवरतकथितोपयोगयोगान्नेमं जरा१. ण ग. // 2. उल्वण // 3. स्त्री // 4. आदिग्रहणेन स्खलितस्खलितं गृह्यते // 5. सन्देहे ग. // 6. तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद् विश्रान्तपुष्पोद्गमा / चिन्तामौनमिवाश्रिता मधुकृतां शब्दैविना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा // ख. // 7. अथवा इत्यर्थः / चो वार्थ //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy