SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 125 तस्माद्भक्तिरलक्षणा। “कस्यचिद् ध्वनिभेदस्य सा तु स्यादुपलक्षणम् / " कस्यचिद् इति अविवक्षितवाच्यस्येत्यर्थः / ननु भक्तिस्तावच्चिरन्तनरुक्ता / तदुपलक्षणमुखेन च ध्वनिमपि समग्रभेदं लक्षयिष्यन्ति ज्ञास्यन्ति, किं तल्लक्षणेन / मैवं, यदि हि गुणवृत्त्यैव ध्वनिर्लक्ष्यत इत्युच्यते, तदाभिधाव्यापारेण तदितरालङ्कारवर्गः समग्रो लक्ष्यत 5 इति प्रत्येकमलङ्काराणां लक्षणकरणवैयर्थ्यप्रसङ्गः / अभिधानाभिधेयभावो ह्यलङ्काराणां व्यापकस्तदभिधावृत्ते वैयाकरणमीमांसकैर्निरूपिते कुत्रेदानीमलङ्कारकाराणां व्यापारः / तथा, हेतुबलात् कार्य जायत इति तार्किकैरुक्ते, किमिदानीमीश्वरप्रभृतीनां कर्तृणां ज्ञातृणां वा कृत्यमपूर्व स्यादिति सर्वो निरारम्भः स्यादित्यर्थः / माऽभूद्वाऽपूर्वोन्मीलनं, पूर्वोन्मीलितमेवास्माभिः सम्यग् निरूपितं, तथाऽपि को दोष इत्यभिप्रायेणाह __"लक्षणेऽन्यैः कृते चाऽस्य पक्षसंसिद्धिरेव नः / " ध्वनिरस्तीति नः पक्षः, स च प्रागेव संसिद्धः / इत्ययत्नसम्पन्नसमीहितार्थाः संवृत्ताः स्मः / तदेवं भाक्तवादनिराकृतौ ताप्यनिषेधो' भक्त्या इत्यायन, लक्ष्यलक्षणतादात्म्यपराकृतावतिव्याप्तिकथनम् अतिव्याप्तः इत्यनेन, व्यञ्जकशब्दलक्षणं उक्त्यन्तरेण इत्यादिना, निर्विवादमतिव्याप्तिदर्शनं रूढा ये विषये इत्यादिना, अतिव्याप्स्यभ्युपगमेऽपि लक्षगाऽनु- 15 पपत्तावुपपत्तिः मुख्यां वृत्तिम् इत्यादिना, लक्षणानुपपत्त्युपसंहारो वाचकत्वाश्रयेण इत्यादिना, अव्याप्तिकथनम् अव्याप्तेः इत्यनेन, उपलक्ष्योपलक्षणभावेऽसार्वत्रिकत्वं कस्यचिद् इत्यादिना,अर्द्धन सर्वथा लक्षगस्य कर्तव्यत्वं कस्यचिदित्यत्रैव नतु भक्तिरित्याक्षेपपुरःसरपरिहारेण, अन्यैः कृतेऽपि लक्षणे पक्षसिद्धिः लक्षणेऽन्यैः इत्यादिना, इति दश प्रमेयाणि / 20 एवमविवक्षितवाच्यविवक्षिताऽन्यपरवाच्यत्वेन ध्वनिर्द्विप्रकारः प्रकाशितः / तत्राविवक्षितवाच्यस्य प्रभेदप्रतिपादनायेदमुच्यते "अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् / अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् / / " योऽर्थ उपपद्यमानोऽपि तावतैवाऽनुपयोगाद्धर्मान्तरसंवलनयाऽन्यतामिव गतोऽपि 25 लक्ष्यमाणोऽनुगतधर्मिसूत्रन्यायेनास्ते स रूपान्तरपरिणत उक्तः / यस्त्वनुपपद्यमान उपायतामात्रेणाऽर्थान्तरप्रतिपत्तिं कृत्वा पलायत इव स तिरस्कृत इति / तत्र अर्थान्तरसङ्क्रमितवाच्यो यथा-स्निग्धश्यामलकान्ति इति / यथा च-ताला जायन्ति गुणा इति / अत्र द्वितीयः कमलशब्दो लक्ष्मीपात्रत्वकान्तावदनोपमानक्षमत्वादिधर्मान्तरशतचित्रतापरिणतं संज्ञिनमाह। 1. -धात्तादात्म्यपराकृतिः भ-ग. // 2. -लक्षकभावपरा- ग. // 3. प्रभेद इति नास्ति ग. पुस्तके // 4. लक्ष्मीपात्रत्वादिधर्मान्तरप्रतिपत्त्यर्थ विशिष्टं कमलं लक्षयतीत्यर्थः //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy