SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 124 कल्पलताविवेक अत्र हि प्रियतमस्यैव समस्ताशाप्रकाशकत्वं ध्वन्यते, तत्तु न लावण्यशब्दाद् अपि तु समग्रवाक्यार्थप्रतीत्यनन्तरं ध्वननव्यापारादेव / एवं यत्र यत्र भक्तिस्तत्र तत्र ध्वनिरिति तावन्नास्ति / तेन ध्वनेर्यदि भक्तिर्लक्षणं तदा भक्तिसन्निधौ सर्वत्र ध्वनिव्यवहारः स्यादित्यतिव्याप्तिः / अभ्युपगम्याऽपि ब्रूमः / भवतु यत्र यत्र भक्तिस्तत्र तत्र ध्वनिः, तथाऽपि 5 यद्विषयो लक्षणाध्यापारो न तद्विषयो ध्वननव्यापारः / न च भिन्नविषययोर्द्धर्मधर्मिभावो धर्म एव च लक्षगमिति / उच्यते-तत्र लक्षगा तावदमुख्यार्थविषयो व्यापारः / ध्वननं च प्रयोजनविषयम् / न च तद्विषयोऽपि द्वितीयो लक्षणान्यापारो युक्तः, लक्षणासामय्यभावादित्यभिप्रायेणाह "मुख्या वृत्तिं परित्यज्य गुणवृत्त्याऽर्थदर्शनम् / यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः // " फलं प्रयोजनम् , स्खलद्गतिः प्रतिपादयितुमशक्तः / तत्र हि चारुत्वातिशयविशिष्टार्थप्रकाशनलक्षणे प्रयोजने प्रतिपादयितव्ये यदि शब्दस्य लक्षकत्वं तत्तस्य प्रयोगे दुष्टतैव स्यात् / प्रयोजनावगमस्य सुखसम्पत्तये हि स शब्दः प्रयुज्यते, तस्मिन्नमुख्येऽर्थे / यदि च सिंहो बटुरिति शौर्यातिशयेऽप्यवगमयितव्ये स्खलद्गतित्वं शब्दस्य, तत्तर्हि प्रतीति नैव 15 कुर्यादिति किमर्थं तस्य प्रयोगः। उपचारेण करिष्यतीति चेत् तत्राऽपि प्रयोजनान्तरमन्वेष्यम् / तत्राऽप्युपचारेऽनवस्था / अथ तत्र न स्खलद्गतित्वं, तर्हि प्रयोजनेऽवगमयितव्ये न लक्षणाख्यो व्यापारस्तत्सामग्र्यभावात् / न च नास्ति व्यापारः, न चासावभिधा, समयस्य तत्राऽभावात् / यद्व्यापारान्तरमभिधालक्षणातिरिक्तं स ध्वननव्यापारः। अत एव च न प्रयोगे दुष्टता काचित् / प्रयोजनस्याविघ्नेनैव प्रतीतेः / तेनाभिधैव मुख्येऽर्थे बाधकेन 20 प्रविवृत्सुनिरुध्यमाना सती अचरितार्थत्वादन्यत्र प्रसरति / अत एवामुख्योऽस्यायमर्थ इति व्यवहारः / तथैव चामुख्यतया सङ्केतग्रहणमपि तत्रास्तीत्यभिधापुच्छभूतैव लक्षणा / यतश्चाभिधाबाधनेनोत्थानात्तत्पुच्छभूतत्वाच्चाऽभिधाशेषभूतैव लक्षणा, ततो वाचकत्वमभिधाव्यापारमाश्रिता कथं ध्वनेर्व्यञ्जनात्मनो लक्षणं स्याद् , भिन्नविषयत्वात् / तदाह "वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता / / व्यञ्जकत्वकमूलस्य ध्वनेः स्याल्लक्षणं कथम् / " तस्मादतिव्याप्तेस्तत्प्रसङ्गेनोपदर्शिताद्भिन्नविषयत्वाच्चान्यो ध्वनिरन्या च गुणवृत्तिः / अव्याप्तिरप्यस्य लक्षणस्य / न हि ध्वनिप्रभेदो विवक्षितान्यपरवाच्यलक्षणोऽन्ये च बहवस्तत्प्रकारा वक्ष्यमाणा भक्त्या व्याप्यन्ते / / 1. शम्दानाम् / 2. -र्न रुध्यमाना ख. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy