SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् यथा च भाववातहठाजनस्य हृदयान्याक्रम्य यन-यन् _भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे / स त्वामाहे जडं ततः सहृदयं म(?ध)न्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसम्भावनात् // 5 कश्चिन्महापुरुषो 'वीतरागा अपि सरागवत्' इति न्यायेन गाढविवेकालोकतिरस्कृततिमिरप्रतानोऽपि लोकमध्ये स्वात्मानं प्रच्छादयन् लोकं च वाचालयन्नात्मन्यप्रतिभामेवाङ्गीकुवस्तेनैव लोकेन मूर्योऽयमिति यदाऽवज्ञायते तदा तदीयं लोकोत्तरं चरितं प्रस्तुतं व्यङ्ग्यतया प्राधान्येन प्रकाश्यते। जडोऽयमिति ह्युद्यानें(ह्युच्यमाने स)हृदयादि वो लोकेनाऽवज्ञायते / स च प्रत्युत कस्यचिद्विरहिण औत्सुक्यचिन्तादूयमानमानसता- 10 मन्यस्य प्रहर्षपरवशतां करोतीति हठादेव लोकं यथेच्छं विकारकारणाभिर्नर्त्तयति / न च तस्य हृदयं केनाऽपि ज्ञायते कीरगयमिति / प्रत्युत महागम्भीरोऽतिविदग्धः सुष्टु गर्वहीनोऽतिशयेन क्रीडाचतुरः स यदि लोकेन जड इति तत एव कारणात् प्रत्युत वैदग्ध्यसम्भावनानिमित्तात् सम्भावितः / आत्मा च यत एव कारणात् प्रत्युत जाड्यं सम्भाव्यं तत एवं सहृदयः सम्भावितः / तदस्य लोकस्य जडोऽसीति यद्युच्यते तदा जाड्यमेवंविधस्य भावनात- 15 स्यातिविदग्धस्य प्रसिद्धमिति सा प्रत्युत स्तुतिरिति जडादपि पापीयानयं लोक इति ध्वन्यते। यदा त्वप्रस्तुतस्य सरूपस्याऽभिधीयमानस्य प्राधान्येन विवक्षा तदा गुणीभूतव्यङ्ग्यतैव / यथा प्राणा येन समर्पितास्तव बलायेन त्व,त्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्या पुरः। 20 तस्यास्य स्मैितमात्रकेण जनयन् जीवापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे / अत्र यद्यपि सारूप्यवशेन कृतघ्नः कश्चिदन्यः प्रस्तुत आक्षिप्यते, तथाऽप्यप्रस्तुतस्यैव वेतालवृत्तान्तस्य चमत्कारकारित्वम् / न ह्यचेतनोपालम्भवदसम्भाव्यमानोऽयमर्थो न च न हृद्य इति वाच्यस्यात्र प्रधानता / व्याजस्तुतावप्ययमेव न्यायः। यदा तावदभिधीयमानाया 25 1. मोह- क. / / 2. मिति...ज्ञायते - स्पष्टं नास्ति / लोके तावत् ज्ञायते ख. / / 3. मृतशरीरे समारोपणात् // 4. मृतशरीरोत्थापनद्वारेणोत्थापितो वेतालः / / 5. मृतशरीरद्वारेणैव स्कन्धे स्थितः।। .. यदा किल वेतालः स्मितं करोति तदा साधकस्य भयान्मरणं सम्पद्यते // .. ........
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy