SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वमस्मत्तः शिक्षित्वा 'भम धम्मिय' इत्याधुदाहियते, तद्भवतु तस्य ध्वनावन्तर्भावो न तु ध्वनेस्तत्राऽन्तर्भावः, तस्य महाविषयत्वेन काव्यविशेषरूपतया च प्रतिपादयिष्यमाणत्वात् / न पुनः पर्यायोक्ते भामहोदाहृते 'गृहेष्वध्वसु वा' इत्यादौ तत्सदृशे च 'यं प्रेक्ष्य चिर' इत्यादौ व्यङ्ग्यस्य प्राधान्यम् , अपि 5 तु पुनरपि वाच्य एव विश्रान्तेर्गुणीभूतत्वमेव बोद्धव्यम् / अपह्नति-दीपकयोरपि वाच्यस्यैव व्यङ्ग्योपमासहितस्य प्राधान्यमिति गुणीभूतव्यङ्ग्यतैव स्फुटेति / यथा-'नेयं विरौति' इति / मणिः शाणोल्लीढः समरविजयी हेतिनिहतः कलाशेषश्चन्द्रः सुरतमृदिता बालललना / मदक्षीणो नागः शरदि सरिदाश्यानपुलिना __ तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः // इति च / / 10 अप्रस्तुतप्रशंसायामपि यदा सामान्यविशेषभावानिमित्तनिमित्तिभावाद्वाऽभिधीय मानस्याऽप्रस्तुतस्य प्रस्तुतेन प्रतीयमानेनाभिसम्बन्धस्तदाभिधीयमानप्रतीयमानयोः सममेव प्राधान्यम् / तत्र यदा तावत् सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस्तदा विशेषस्य प्रतीतो सत्यामपि प्राधान्येन तस्य सामान्येनाविना भावात् सामान्यस्याऽपि प्राधान्यम् / यथा 15 अहो संसारनैघृण्यमहो दौरात्म्यमापदाम् / अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः // . अत्र हि दैवस्वातन्त्र्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितं सत्प्रकृते क्वापि वस्तुनि विनष्टे विशेषात्मनि पर्यवस्यति / यदाऽपि विशेषस्य सामान्यनिष्ठत्वं तदापि सामान्यस्य प्राधान्ये सामान्ये सर्वविशेषाणामन्तर्भावाद्विशेषस्यापि प्राधान्यम् / यथा-'एतत्तस्य मुखात्' 20 इति / निमित्तनिमित्तिभावे चायमेव न्यायः / यथा- "ये यान्त्यभ्युदये' इति / - संग्गं अपारियायम्' इति च / यदा तु सारूप्यमात्रवशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकृतयोः सम्बन्धस्तदाऽप्यप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनावेवान्तःपातः / यथा त्वन्मूले पुरुषायुषं गतमिदं प्रायेण संशुष्यतां 25 . क्षोदीयांसमपि क्षणं परमितः शक्तिः कुतः प्राणितुम् / तत् स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा कल्याणैः फलिताऽसि तालविटपिन् पुत्रेषु पौत्रेषु च // 1 काम्यं च तद्विशेषश्चासौ // 2. नैमित्तिके प्रस्तुते निमित्तमप्रस्तुतमत्र / / 3 पूर्ववैपरीत्यमत्र / /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy