SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ दोषदर्शनम् अर्थ इति करुणलक्षणः / लेशतस्तु सम्भोगस्य इत्यादि / संभोगशृङ्गारोपयोगाभिनयसूचाकरणक्रमेण चेत्यर्थः / एवम् इति / यथा एहीत्यत्र श्लोके विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशेन विरोधस्तथेत्यर्थः / कुरवक-इति / अत्र हि यच्छन्दनिर्देश्यस्य नृपस्य प्रभावातिशयवर्णने तद्विपक्षाणां यः करुणो रसः स न केवलं विभिन्नाश्रयत्वेन यावता स्वास्वादैविश्रान्त्यभावाद्विवेकशालिनां सामाजिकानां वामचित्तहृतिमुत्पादयितुमलमिति कुण्ठ- 5 शक्तित्वेनापि न वीरं विरुणद्धि, प्रत्युत वीरास्वादातिशयपर्यवसानेन प्रीत्यतिशयहेतुत्वं प्रतिपद्यत इति / - अत इति / यस्मात् करुणस्य कुण्ठशक्तित्वेन विषयान्तरे वीरेण विरोधिना न विरोधसंभवोऽत इहापि करुणस्य कुण्ठशक्तित्वात्तद्विरोधाधायिना सम्भोगेन न कथञ्चिद्वीरवद्विरोधः सम्भवीति / अस्त्येव निर्विरोधत्वम्-इति / अत्रायं भावः / पूर्व पक्षद्वये संभोग- 10 करुणयोरन्यत्राङ्गभावगमनानिर्विरोधत्वमुक्तम् / अधुना तु स संभोगः करुणस्यैवाङ्गतां प्रतिपन्नः कथं विरोधीति व्यवस्थाप्यते / तथाहि करुणो नाम इष्टजनविनिपातादेः विभावादित्युक्तम् / इष्टता च नाम रमणीयतामूला / ततश्च पुनरप्युद्यद्विवाहा इवेत्युत्प्रेक्षयेदेमुक्तम् / दावाग्नेः परितो भ्रमणेन प्राक्तनः प्रथमानुरागातिशयवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रकृष्टां प्रतिपद्यते इति वाक्यार्थीभूतस्य करुणस्य विरोधिनाऽपि शृङ्गारेण 15 परिपोष एवाधीयते / परतस्तु शृङ्गारपोषितेन करुणेनात्र मुख्य एवार्थं उपोद्वल्यते / उक्तं हि "गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते / प्रधानस्योपकारे हि तर्था भूयसि वर्त्तते // " अमुना च विरोधोद्धरणप्रकारजातेन बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाह- 20 इत्थं च इति / तस्य इति करुणस्य / अथवा इति / पूर्वमङ्गतोक्त्या प्रकारद्वयेन निर्विरोधत्वं सूचितम् / इदानीं तृतीयेनापि प्रकारेण तद् व्यवस्थाप्यत इत्यर्थः / एवं रसानां विरोधिभिः समावेशासमावेशयोर्विषयविभागे दर्शिते तेषामेकप्रबन्ध• विनिवेशने यो न्यायस्तं प्रतिपादयितुं प्रस्तावाद् ध्वनिकारोक्तमेव प्रदर्श्यते "प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने / एको रसोऽङ्गीकर्तव्यस्तेषोमुत्कर्षमिच्छता // " 1. - नूद्यमानसमावेशेन ख / / 2. स्वात्मन्यास्वाद- ग. / / 3. आगन्तुकानाम् // 4. कामन्त्य इत्यादौ // 5 वक्ष्यमाणम् // 6. वाक्यार्थीभूतस्य वीरस्य सान्निध्यात् करुणस्य वाक्यार्थीभूतत्वम् / / 7. वीर // 8 पुष्टः क्रियते // 9 कृतात्मसंस्कारत्वेन // 10. लक्षणम् // 11. प्रबन्धानाम् / /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy