SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके "रसान्तरान्तरितयोरेकवाक्यस्थयोरपि / निवर्त्तते हि रसयोः समावेशे विरोधिता // " रसान्तरेण व्यवहितयोरेकप्रबन्धस्थयोविरुद्धयोविरोधिता निवर्तत इत्यत्र न काचिद्धान्तिः / यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तत इत्यर्थः / 5 दरापेतत्वम् इति स्वदेहानामित्यर्थः / असम्भावनास्पदम् इति आत्मीया इमे देहा इत्येवं संभावनाया अस्थानमित्यर्थः / तदात्म-इति / त एव देहा एवात्मान आत्मीयास्तेषु वा आत्मीया अमी इति सम्भावनाया अनिवर्त्तनादित्यर्थः / उत्साहायवगत्या इति / वीराः स्वदेहानित्यादिना या उत्साहाद्यवगतिस्तया, उत्साहाद्यवगतिकारिणोश्च कर्तृकर्मलक्षणयोरर्थयोर्विशेष्यत्वेन सकलवाक्यार्थानुगामितया प्रतीतत्वात् / शृङ्गारबीभत्स10 योरन्तरेऽविनिवेशितस्यापि वीरस्य नितरामन्तरा भवनं प्रतीयत एवेत्यर्थः / आदिग्रहणात्तद्वयभिचारिप्रभृतयो गृह्यन्ते / दन्तक्षतानि इति / अत्र शृङ्गारतुल्यत्वेन शान्तो विवक्षितः / रतिर्या इति / अत्र रत्या प्रेयोऽलङ्काररूपया स्वालम्बनभूतो नृपप्रभावातिशयो लक्ष्यते / शोकव्यभिचारि इति / यदा भीता इत्यनेन करुणस्थायिनः शोकस्य व्यभिचारिभूतं तुच्छं' तु नारीगतं 15 भयमुपवर्णितं तदा पुनरप्युद्यद्विवाहा इवेत्युत्प्रेक्षावशसमर्पितस्य कुमारीजनसुलभस्य भयस्यानुस्मरणमञ्जसमेवेत्यर्थः / ___ ननु अन्यपरत्वेऽपि स्वभावो न निवर्तते, स्वभावकृत एव च विरोध इत्यभिप्रायेणाहअन्यपरत्वेऽपि इति / वाच्यस्य इति वाक्यवाच्यस्येत्यर्थः / तदाक्षिप्तानाम् इति / वाक्यार्थाक्षिप्तत्वादेव रसानां वाक्यार्थत्वमभ्युपगम्यत इति न पूर्वापरव्याघातः / भीत20 विप्लुतादि इति / आदिग्रहणात् करुणादयो दृष्टिविशेषा गृह्यन्ते / तथा च तल्लक्षणानि "प्रोवृत्तनिस्तब्धपुटा स्फुरदुद्वृत्ततारिका / दृष्टिर्भयानिकाज्यर्थं भीता ज्ञेया भयानके // पुटौ प्रस्फुरितौ यस्या निस्तब्धौ पतितौ पुनः / विप्लुतोवृत्ततारा च दृष्टिरेषा तु विप्लुता // प्रयोज्या चापलोन्माद-दुःखार्त्तिमरणादिषु / / पतितोवपुटा सास्रा मन्युमन्थरतारिका / नासाग्रानुगता दृष्टिः करुणा करुणे रसे / / " इति / 1. त्वच्छ ग // 2. पूर्वत्र वाक्यार्थत्वेनाभ्युपगमादित्यत्र // 3. -तारका ग. // 4.- ताराक ग //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy