SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके . साङ्कृत्यायन्या सुपरीक्षितः कृतः / तथाच नाट्यधारे नाटके। प्रेक्षाजीवात् प्रद्योतस्य वत्सेशेन मातुलस्वेऽवगते उक्तम् / रुमण्वन् ! किमेतत् / रुमण्वान्-देव ! एवमेवैतत् / सिंहो नाम लिच्छिविनाथः सिंहदत्तेनाकाण्डावस्कन्दपातिना व्यापादितस्तत्रान्तरे भ्रातृभगिनीद्वयमेतद्विप्रयुक्तमिति / स्नेहवत्तां च ख्यापयता महासेनेन वत्सेशं प्रति उक्तम् आराधितोऽपि न च वत्सलतामुपैति बध्नाति वैरमुपकारिणि बन्धुवर्गे / गर्व न मुञ्चति गुरुष्वपि मानदोषाद् अस्मच्छिशुः स किल वञ्चयितुं प्रवृत्तः // इति / साङ्कृत्यायन्याश्च वत्सेशं प्रत्यव्यभिचारिता स्पष्टैव / यतः सा कौशाम्ब्यां 10 ब्राह्मणी स्वेन पत्याभिगृह्य साटकेन च गलकबन्धान्निरुच्छ्वासीकृत्य यमुनायां प्रक्षिप्ता, सलिले वहन्ती नौभिः क्रीडता वत्सराजेन दृष्टा प्रत्युज्जीविता चेति / तथा चोन्मत्तयौगन्धरायणे साङ्कृत्यायनी-अहो नु खलु भो! वत्सराजस्येहानयनेन पीडिता चाहमनुगृहीता च / यतः स्वामी क्रमागत इहैवमवस्थितः सन् द्रष्टव्य इत्यतितरां बत पीडिताऽस्मि / नौक्रीडयाऽधियमुनं स तथोपकारी शक्योऽत्र किश्चिदुपकर्तुमिति प्रहृष्टा // नन्वेवं मातुलदुहितृपरिणयनमागमविरुद्धं स्यात् / एतदपि नाट्यधारे परिहृतम् / 20 दक्षिणापथाचाराश्रयगात् / तथा च रुक्मिणो दुहिता मातुलस्य प्रद्युम्नेन परिणीतेति / अथवा महासेनस्य वासवदत्ता दुहितैव न भवति, किन्तु चण्डकौशिकस्य तनया लक्ष्म्यंशोत्पन्ना दुहितृवत् प्रद्योतेन पालिता इति / यदपि तच्चोदितं सचेतनस्य इत्यादि / तदपि उन्मत्तयौगन्धरायणे परिहृतम् / भट्टा से खल् महावालणे पीलुगहणं धोलम्बणं खणं पि न मिल्लदि / इति म्लेच्छेन निवेदिते 25 वत्सराजः प्राह-मदातिशयसन्तापोऽस्यातिगरीयानिति तर्कयामि / तस्मान्न किञ्चिदवद्य वासवदत्तालम्मके इत्यभिप्रेत्यैतदुक्तम् / कृतात्मनां तत्त्वविदाम् इत्यादि इति / . सम्प्रति त्रिप्वपि शून्यतोपेक्षासमुत्थानपक्षेषु यत् पञ्चमं दूषणमुद्भावितं तद् ग्रन्थकारः स्वयमेव दित्सुराह-सचेतसो वन इत्यादि / एतदुक्तं भवति / वत्सराजो 1. वैरम-ग. // 2. कौशाम्न्या ग. // 3. किं च ग // 4. खु-ग. // 5. वया-ग. // 15
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy