SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ दोषदर्शनम् वत्समण्डलोपद्रवाशङ्का किमङ्ग पुनर्बद्ध्वोज्जयनी नीते / तेन स्वमण्डलानर्थोपनिपातदोषोऽपि / व्यसनानां हि प्रधानं स्वामिव्यसनम् / छिद्रप्रहारिणश्च रिपव इति [2] / बन्धनकाले च तेजस्वी वत्सराजो नैवमेव बन्दुं शक्यत इति अवश्यमेव भवितव्यं सम्प्रहारेण / तत्र च व्यापत्तिशङ्का दुर्निवारेति [3] / उज्जयनी च नीतस्य न महासेनो व्यभिचरिष्यति वत्सेशस्येत्यत्र किं प्रमाणम् / अनन्तरमण्डलत्वेन रिपोः प्रद्योतस्य हस्तस्थिते वत्सेश्वरे व्यभिचार 5 एव युक्त इति 4 / पञ्चमं पुनश्चो सचेतनस्य वनहस्तिनश्चर्मनिर्मितस्य च कथमुदयनो विशेषं न विद्यादिति [5] / तस्माद्गम्भीराभिप्रायत्वख्यापनं गुणाढयस्य व्यर्थमेवेति / ___अत्र समाधीयते / यत्तावदुक्तं प्रयोजनाभाव इति / तत्रेदमुच्यते / प्रद्योतो दुहितरं वत्सेशाय दित्सति / वत्सेशोऽपि तूणीहारः प्रद्योतोऽहं पुनरर्जुनवंशसंभूत इति तन्मनोरथं न पूरयति / तेनावमान्यमानः कदाचिन्मित्रत्वाच्चलिष्यति प्रद्योत इति यौगन्धरायणादिभिः 10 सम्भूय बन्धनं प्रस्तुतम् / विशालागतो हि वत्सेशो वासवदत्तां दृष्ट्वा नियमेन तस्यामनुरज्यत इति / अनन्तरमण्डलत्वेऽपि हि मैत्री निमित्तवशेन शतशो दृश्यते / यदप्युक्तम्-आरुणेमण्डलोपद्रवसंभावना स्पष्टैव स्वामिव्यसनस्योपनिपतितत्वादिति। तदपि न सम्यक् / सचिवन्यस्तभरः खलु वत्सराजस्तेनास्य सन्निधानासन्निधाने अकिञ्चिकरे / विरूक्षिते पुनः प्रद्योते प्रद्योतारुणिभ्यामारब्धस्य वत्समण्डलस्य नास्ति प्रतीकार 15 इत्यभिसन्धाय रुमण्वत्प्रभृतिभिर्वत्सेशबन्धनमनुचितम् / तथा च उन्मत्तयौगन्धरायणे स्वामी सदैव मृगयाव्यसनप्रयुक्तो राज्यं विसंस्थुलमरिः शिरसि प्रवृद्धः / मित्रं त्ववन्तिपतिरेव कुलाभिमानाद् देवेन सोऽपि हि मनाग्विकृतिं च नीतः // इति / 20 यदप्युक्तं बन्धनसमये एव व्यापत्तिः शङ्कयते वत्सराजस्येति / एतदपि सुबन्धुना . आशङ्कय परिहृतम् / अङ्गारवतीं प्रति साङ्कृत्यायनी प्राह-अथ तस्मिन्नेव संप्रहारे व्यापादितः स्यात् / अङ्गारवती-तस्सय्येव सो परिअणो कधं सामिणं वावादयिस्सिदि / प्रेक्षकवत्सराजः प्राह-उपपद्यत एतत् / तथा चैते पुरुषा मषीमलम्रक्षणदुर्विभावाः शाखासु मां घ्नन्ति शनैः कथञ्चिदिति / 25 यदप्यन्यदुक्तं विशालागतस्य वत्सेशस्य महासेनात् प्रत्यपायशङ्केति / तदप्यसत् / यत उदयनस्य मातुलः प्रद्योतः स कथं तत्प्रत्यपाये प्रयतिष्यते / अतिशयस्नेहवांश्च // 2. स्थिते न वत्से-ख. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy