________________ 76] प्रथमो वृक्षकाण्डः। [43 'पूतिपुष्प-फलः' इति पूतिशब्दात् पुष्प-फलशब्दौ योज्येते, पूतीनि पुष्पाणि फलानि चास्य पूतिपुष्पः पूतिफलः / आह च___ इङ्गुदो भल्लकी वृक्षः कण्टकस्तापसंद्रुमः / / ] इति / एतस्य लोके 'हिंगोटु' इति प्रसिद्भिः // 74 // गुग्गुलौ तु पुरो दुर्गो महिषाख्यः पलङ्कषः / जटायुः कालनिर्यासो वासवोलूकनामकः // 7 // नक्तश्चरः शिवधूपः कुम्भोलूखलकं शिवः / "गुङ् शब्दे" गूयते गुग्गुलुः ‘गूहलु-गुग्गुलु-" [हैमोणाद्रिसू० 824] इति आलुप्रत्ययान्तो निपात्यते, पुंल्लिङ्गः, तत्र / “पुरत् अग्रे” पुरति पुरः, “नाम्युपान्त्य-" 10 [ सिद्ध 0 5.1.54 ] इति कः / “पिपर्ति पुरः" इति क्षीरस्वामी, "ऋगुपधा-" [ ? ] इति कः, "उदोष्ठ्यपूर्वस्य" [पाणिनि० 7.1.102] इति उद् / दुःखेन गम्यते दुर्गः, “सुग-दुर्गमाधारे' [सिद्ध०५.१.१३२] इति साधुः, उग्रगन्धत्वात् / महिषस्य आख्या अस्य महिषायः। पलं-मांसं कषति पलङ्कषः, पृषोदरादित्वान्मोऽन्तः / जटामेति जटायुः, “कृ-वा-पा-जि-" [हैमोणादिसू० 1] इत्युण / कालो 15 निर्यासोऽस्य कालनिर्यासः / वासवोलूकनामकः' इति वासवोलूकशब्दाभ्यां परो नामशब्दः सम्बध्यते, वासवस्य नामास्य वासवनामकः, उलूकस्य नामाऽस्य उलूकनामकः // 75 // अत एव नक्तं चरति नक्तञ्चरः। शिवस्य धूपः शिवधपः / “कुम्भोलूखलाकाराद् वृक्षगुल्माद् निर्यातीति कुम्भोलूखलकम्" इति क्षीरस्वामी, 30 क्लीबलिङ्गोऽयम् / यदमरः-- कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः / का०२ वर्ग 4 श्लोक 34] इति / शेते शिवः, 'शीङपो हस्वश्च वा” हैमोणादिसू० 506] इति वः / आह च- 25 गुग्गुलुः कालनिर्यासो जटायुः कौशिकः पुरः / नक्तञ्चरः शिवो दुर्गो महिषाख्यः पलङ्कषः // ] इति / 1 °षाक्षः 50 नि० // 2 °लकः शिवः नि० //