________________ सटीके निघण्टुशेषे [ श्लो० ७३शाम्यत्यस्यां सस्यं शमी; “शमयति दोषान्" इति क्षीरस्वामी, शिवात्वात्, गौरादित्वाद् ङीः, तस्याम् / सक्तवः फलान्यस्याः सक्तुफला / लक्ष्मीरिव लक्ष्मीः ; लक्ष्यते वा “लक्षेर्मोऽन्तश्च" [हैमोणादिसू० 715] इति ईः / “शृधूङ् शब्दकुत्सायाम्" शर्धते अनया शिम्बा, “डी-नी-बन्धि-धि-" [हैमोणादिसू० 325] इति डिदिम्बः / 5 तुङ्गा उच्चस्तरत्वात् / अग्नेः पादपोऽग्निपादपः / अजस्य- छागस्य प्रिया अजप्रिया / भस्मसमानं काष्ठमस्या : भस्मकाष्ठा / शं करोति शङ्करः / शिवस्य कीलिकेव शिवकीलिका // 72 // शिवहेतुत्वात् शिवाः शेरते इव दोषा अनेनेति वा, “शीङापो हस्वश्च वा" [हैमोणादिसू० 506] इति वः दीर्घस्य हूस्वश्च / न विद्यन्ते लोमान्यस्या अलोमा, 10 केशहर्तृफलत्वात् / आयतानि फलान्यस्या आयतफला / 'लोम-पामविनाशिनी' इति लोम-पामशब्दाभ्यां विनाशिनीति योज्यते, लोम्नां विनाशिनी लोमविनाशिनी, पाम्नो विनाशिनी पामविनाशिनी / मङ्गले साधुर्मङ्गल्या, “तत्र साधौ” [सिद्ध 0 7.1.15] इति यः / शुचीनि पत्राण्यस्याः शुचिपत्रा / आह चशमी सक्तुफला तुङ्गा केशहर्तृफला शिवा / ] इति / एतस्या लोके 'खेजडी' इति प्रसिद्धिः / फले तस्यास्तु सङ्गरम् // 73 // 'तस्याः' शम्याः फले सम्यग् गरोऽस्य सङ्गरम् सङ्गरणं वा / एतस्य लोके 'सांगरी' इति प्रसिद्धिः // 73 // इगुद्यां तापसतरुर्मार्जारः कैटकीलकः / बिन्दुकस्तिक्तमज्जा च पूतिपुष्प-फलोऽपि च // 7 // "इगु गतौ” इङ्गति इङ्गुदी, “इङ्गयर्बिभ्यामुदः' [ हैमोणादिसू० 242 ] इत्युदः त्रिलिङ्गः, तस्याम् / तापसानां तरुस्तापसतरुः, तापसा हि अरण्येऽस्यास्तैलमुपयुञ्जते / मार्टि मार्जारः, “अग्यङ्गि-" [हैमोणादिसू० 405] इत्यारः / 25 कटमत्यर्थं कीलयति कटकीलकः। बिन्दुप्रतिकृतिबिन्दुकः, "तस्य तुल्ये कः संज्ञाप्रतिकृत्योः” [ सिद्ध 07.1.108 ] इति कः / तिक्ता मज्जाऽस्याः तिक्तमज्जा / 1 उच्चैस्त्वात् पु 2 // 2 साङ्गरः नि० // 3 कण्टकीटकः नि• // 20