________________ 133 243 ] द्वितीयो गुल्मकाण्डः। ग्रीष्माऽतिसुरभिः कान्ता सुगन्धा वनमालिनी / सुकुमारा शिखरिणी नेमाली नवमालिका // [ धन्व० वर्ग 5 श्लो० 140 ] इति / . एतस्या लोके 'नीमाली' इति प्रसिद्धिः // 241 // मल्लिकायां शीतभीरुर्मदयन्ती प्रमोदनी / णादिसू० 607 ] इति इः, स्वार्थिके के मल्लिकाः “दृ-क-नृ-' [ हैमोणादिसू० 27] इत्यको वा , तस्याम् / शीताद् भीरुः शीतभीरुः, ग्रीष्मकत्वात् / मदयति मदयन्ती, शतृप्रत्ययः / प्रमोद्यतेऽनया प्रमोदनी, अनट् / अष्टौ पदान्यस्या अष्टापदी, 10 "नाम्नि" [ सिद्ध 0 3.2.75 ] इति दीर्घः / तृणशूले–गुल्मे साधु तृणशूल्यम् / गोरिव अक्षीण्यस्या गवाक्षी / भुवि पदमस्या भूपदी / आह च--- मल्लिका शीतभीरुश्च मदयन्ती प्रमोदनी / मदनीया गवाक्षी च भूपद्यष्टापदी तथा // [धन्व० वर्ग 5 श्लोक 134 ] इति / आह च(? तथा) तृणमूल्यं तु मल्लिका // भूपदी शीतभीरुश्च [ अमर० का० 2 वर्ग 4 श्लो० 69-70 ] इति / मल्लिकानामानि / लोके तु 'केवडी' इति प्रसिद्धिः // 242 // 3c सुवर्षा त्रिपुटा व्यस्रा सुरूपा मुक्तबन्धनी // 243 // वर्षासु भवा वार्षिकी, “वर्षाकालेभ्यः" [ सिद्ध 0 6.3.80 ] इतीकण , तस्याम् / षट्पदानानन्दयति षट्पदानन्दा / श्रीविद्यतेऽस्याः श्रीमती / शोभनो भगोऽस्याः सुभगा। प्रीणाति प्रिया, "नाम्युपान्त्य-" [सिद्ध 5.1.54 ] इति 25 कः / शोभनो वर्षोऽस्याः सुवर्षा / त्रीणि पुटान्यस्याः त्रिपुटा / त्रयः अस्राः 1 मुद्रितेऽमरे 'तृणशून्य' इति पाठो दृश्यते //