________________ 239] द्वितोयो गुल्मकाण्डः। यूथिकायां बालपुष्पी मागधी गन्धयूथिका। गुणोज्ज्वला पुण्यगन्धा चारुमोटा शिखण्डिनी॥२३८॥ अम्बष्ठा गणिका यूयते-मिश्रीक्रियते यूथी , 'पथ-यूथ-" [हैमोणादिसू० 231 ] इति थे निपात्यते, के यूयिका, यूथः-जालकमस्त्यस्यां वा, “अतोऽनेकस्वरात्" [सिद्ध 0 7. / 2. 6] इतीकः, तस्याम् / बालानि पुष्पाण्यस्या बालपुष्पी, "असत्काण्डप्रान्त-" [सिद्ध० 2. 4. 56 ] इति ङीः / मगधदेशे भवा मागधी, "भवे" [ सिद्ध 0 6. 3. 123 ] इत्यण, "अणजेये." [सिद्ध 0 2. 4. 20] इति डीः / गन्धस्य यूथिका गन्धयथिका / गुणैरुज्ज्वला गुणोज्ज्वला / पुण्यो गन्धोऽस्याः पुण्यगन्धा / चारुमा प्रधानगन्धश्रीः तामटति चारुमोटा, पृषोदरादित्वात् / शिखण्डाः 10 सन्त्यस्यां शिखण्डिनी // 238 // अम्बे तिष्ठति अम्बष्ठा, “स्था-पा-स्ना-त्रः कः" [ सिद्ध० 5. 1. 142] इति कः प्रत्ययः, गो-ऽम्बा-ऽम्ब-सव्य-" [ सिद्ध० 2. 3. 30 ] इत्यादिना षत्वम् / गणयति गणिका, णके आप् , चित्ताकर्षणात् / आह च- / यूथिका बालपुष्पी च पुण्यगन्धा गुणोज्ज्वला / गणिका चारुमोटा च शिखण्डी धन्व० वर्ग 5 श्लो० 148 ] इति / एतस्या लोके 'जूही' इति प्रसिद्धिः / सा तु पीता स्याद्धमपुष्पिका / 'सा' यूथिका 'पीता' पीतवर्णा हेमवर्णं पुष्पमस्या हेमपुष्पी, "असत्काण्ड- 20 प्रान्तशतैकाञ्चः पुष्पात्" [ सिद्ध० 2. 4. 56 ] इति ङीः, स्वार्थिके के हेमपुष्पिका / आह च स्वर्णयूथिका // यूथशालिनी [ धन्व० वर्ग 5 श्लो० 148-49 ] इति / एतस्या लोके 'सुवर्णजूही' इति प्रसिद्धिः / इह प्रस्तावात् शङ्खयूथिकाऽपि 25 ज्ञेया / आह च प्रोक्ताऽन्या शङ्खधवला नामतः शङ्खयूथिका / [धन्व० वर्ग 5 श्लो० 149 ] इति /