SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ॥ पिण्डनिरूपणम् ॥ पदविग्रहस्तु समासभाक्पदविषयः, असमासभाजि चात्र पदानि मुक्त्वा पिण्डनियुक्तिपदमित्यत्र च निदर्शित एव। साम्प्रतं चालना- सा पुनः उपन्यस्तवस्त्वनुपपत्तिचोदनालक्षणा। तत्राह- इत्थं क्रमोपन्यासः किं यादृच्छिक उत सार्थकः इति ? यद्याद्यः पक्षः, असङ्गतोऽयम्, यादृच्छिकत्वादेव, अथ द्वितीयः, कोऽसौ अर्थ इति ? अत्रोच्यते- पिण्डस्तावद् व्यापक एव, तथा न उद्गमेऽसत्युत्पादना सम्भवति, न चानुत्पादितस्य ग्रहणम्, न चागृहीतस्य संयोजनादय इत्यतोऽयमेव क्रम इति। कारणोपन्यासस्तूच्यतेपरिशुद्धोऽप्यकारणे न भोक्तव्य इति ज्ञापनार्थम्, इदं प्रत्यवस्थानम्। शेषव्याख्यालक्षणयोजना त्वेतदन्तगतैवेति कृत्वा न क्रियते इति गाथासमुदायार्थः॥१॥ __ अवयवार्थं तु ग्रन्थकारः स्वयमेव वक्ष्यति। तत्र 'यथोद्देशं निर्देशः' इति न्यायमधिकृत्य पिण्डद्वारावयवार्थं प्रतिपिपादयिषया 'तत्त्व-भेद-पर्यायैर्व्याख्ये'ति न्यायात् पिण्डपर्यायशब्दानभिधित्सुराह पिंड-निकाय-समूहे संपिंडण पिंडणा य समवाए। समोसरण-निचय-उवचय-चए य जुम्मे य रासी य॥२॥ पिंड-निकाय-समूहे गाहा। व्याख्या- गुडपिण्डवत् पिण्डः, भिक्षुनिकायवत् निकायः, जनसमूहवत् समूहः, सेवा-खण्डादिसम्पिण्डनवत् सम्पिण्डना, क्रियाकाल-निष्ठाकालयोरभेदात् पिण्डः, एवं पिण्डनाऽपि वक्तव्या। वणिक्समवायवत् समवायः, जिनसमवसरणवत् समवसरणम्, धान्यनिचयवत् निचयः, हिरण्याधुपचयवद् उपचयः, इष्टकादिचयवत् चयः, चशब्दात् पुञ्जः, पूगः, व्रातः, गणः, कूट इति, भारण्डयुग्मवद् युग्मम्, पूगफलादिराशिवद् राशिः, एते च पर्यायशब्दा नैकान्तेनाभिन्नार्थवाचकाः किन्तु कथञ्चिद् भिन्नार्थवाचका इति गाथार्थः॥२॥ साम्प्रतं भेदलक्षणव्याख्याऽङ्गोपन्यासार्थमाह पिंडस्स उ निक्खेवो चउक्कओ छक्कओ य कायव्वो। काऊण य निक्खेवं परूवणा तस्स कायव्वा॥३॥ पिंडस्स उ गाहा। निगदसिद्धा। णवरं चउक्क-च्छक्कगाणं भेदेणाभिधानं व्यापकाऽव्यापकन्यायप्रदर्शनार्थम्, चउक्कगो वावगो इतरो उ ण तहा। भणियं च जत्थ तु जं जाणेज्जा णिक्खेवं णिक्खेवे णिरवसेसं। जत्थ वि य ण जाणेज चउक्कगं निक्खिवे तत्थ॥ (आचा० नि० ४) गुरवस्तु चउक्कउ सुखं प्ररूप्यते सर्वश्रोतृणामितरस्तु नैवमि'ति व्याचक्षते। तहा 'तस्स'त्ति पिंडस्स णिक्खेवस्स वा॥३॥ आह– इह कयरो णिक्खिप्पइ ? गुरुराह- छक्कउ। किं कज्जमिति ? आह कुलए उ चउब्भागस्स संभवो छक्कए चउण्हेवं। नियमेण संभवो अत्थि छक्कगं णिक्खिवे तम्हा॥४॥ (टि०) १. नार्थः जि० जि१॥ २. रासी य जुम्मे य जे१॥ ३. ०ब्दानेकान्तेनाभिन्नाभिन्नार्थवा० जि०। ०ब्दानैकान्तेनभिन्नार्थवा० जि१॥ ४. व्याख्यातभेदोपन्या० जि०॥ ५. छक्कउ सुखं जि१॥ ६. ०प्पउ जि० ला० ॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy